________________
जैन
तत्त्वसार
॥ ५७ ॥
अनन्तकालेऽपि ' - अनन्तसमयेऽपि, 'पेयं न भवेत् ' - पातुं योग्यं न भवति, ' यत् ' शब्दस्तथार्थः, 'वर्णान्तरम् ' - अन्यं वर्ण, ' नैवाश्रयेत् ' - नाश्रयति, वर्णान्तरमपि न प्राप्नोतीत्यर्थः ॥ ६ ॥
मूलम् - अनन्ततोऽनन्ततरस्त्वनेहा, बभूव वालवणोदनाम्नः । विनेदृशं कर्म न नाम वाच्यं तत्कुत्र दुष्कर्म कृतं जलेन ॥ ७ ॥ टीका - उक्तविषयमेव दृढयति - अनन्तत इत्यादिना ' लवणोदनाम्नः ' - लवणोदनामकस्य,
वार्द्धेः समुद्रस्य,
' अनंततः - - अनन्तात्, 'अनंततरः ' - अतिशयेनानंतः, अनन्तादप्यधिकोऽनंत इतिभावः, ' अनेहा' - कालः, 'तु ' शब्दश्चरणपूर्ती, ' बभूव ' - अभवत्, ' कर्म विना ' - कार्यमंतरेण, दुष्कर्म विनेत्यर्थः, ' इदृशं – पूर्वोक्तं, ' नाम ' - अभिधानम्, लवणोद इति नामेतिभावः, 'न वाच्यम्' - न कथनीयम् भवति, 'तत्'- तर्हि, जलेन, 'कुत्र' – कस्मिन् स्थाने, 'दुष्कर्म’निकृष्टं कर्म, ' कृतम् ' -विहितम् ॥ ७ ॥
मूलम् - यत्रापि गङ्गादिमहानदी भवं जलं गतं तद्गतरूपि तद्रसं ।
•
निगोदकेषु व्यवहारराशितो, जीवा गतास्तेऽपि भवन्ति तत्समाः ॥ ८ ॥
टीका — उक्तविषयमेव स्पष्टयति-यत्रापीत्यादिना 'गंगादिमहानदीभवं ' - गंगादीनां महानदीनां संबंधि, ' जलं - वारि, अपि, ‘ यत्र '-यस्मिन् लवणोद इतिभावः, ' गतं ' - प्राप्तं सन्, ' तद्गतरूपि ' - लवणोदस्थितजलस्वरूपम्, 'तथा' १. दुष्कर्म ।
दशमोऽधिकारः
॥ ५७ ॥