________________
AC3%A5AC
'तद्रसं'-लवणोदजलरसयुक्तं भवति, एवम् 'व्यवहारराशितः '-व्यवहारराशिमतिक्रम्येतिभावः, 'निगोदकेषु'-निगोदेषु 'गताः'-प्राप्ताः, 'ये जीवा:'-जंतवः सन्ति तेऽपि, 'तत्समाः'-निगोदजीवसदृशाः,' भवन्ति'-जायन्ते ॥८॥
मूलम् तदवारि मेघस्य मुखं समाप्य, पेयं भवेच्चाथ सुखीभवन्ति ।
एवं निगोदादपि निर्गता ये, संलभ्य जीवा व्यवहारराशिम् ॥९॥ टीका-तवारीत्यादि 'तद्वारि'-लवणोदस्य जलम् , यथा 'मेघस्य'-जलदस्य, 'मुखं '-संबंधं, 'समाप्य'प्राप्य, 'पेयं भवेत '-पातुं योग्य जायते, 'चाथ' शब्दो चरणपूर्ती, 'एवम् '-उक्तप्रकारेण, 'ये-जीवा:-जंतवः, 'निगोदादपि -निगोदतोऽपि, 'निर्गताः'-निष्क्रान्ता भवन्ति, ते 'व्यवहारराशिं'-व्यवहारनामकं राशि, 'संलभ्य'प्राप्य, 'सुखीभवंति'-सुखिनो जायन्ते ॥९॥
मूलम्-यद्वागमज्ञस्य नरस्य कस्यचित्, हृदन्तरोचाटनमन्त्रवर्णाः।
तिष्ठन्ति तैः किं कृतमत्र दुःकृतं, यदीदृशं नाम निगद्यते जनैः ॥ १०॥ टीका-दृष्टान्तरमाह-यद्वेत्यादिना 'यद्वा'-अथवा, 'आगमज्ञस्य-मांत्रिकस्य, 'कस्यचित् '-कस्यापि, 'नरस्यजनस्य, 'हृदन्तरा'-हृदयमध्ये, 'उच्चाटनमंत्रवर्णाः '-उच्चाटनकारकमंत्रस्याक्षराणि, 'तिष्ठन्ति'-स्थितिं कुर्वन्ति, 'तैःउच्चाटनमंत्रवणः, 'अत्र'-अस्मिन् संसारे, किं 'दुष्कृतं '-निकृष्ट कार्यम्, 'कृतं '-विहितमस्ति, 'यत्'-यस्मात्
१. लवणोदस्य वारि । २. मान्त्रिकस्य । ३. उच्चाटनेति दुर्नाम ।
%ECE