SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ KARANG गच्छन्ति, 'तेऽपि जीवाः' 'निगोदजीवत्वम् लभन्ते '-निगोदजीवभावं प्राप्नुवन्ति, एतेषाम् कथं '-केन प्रकारेण, 'व्यवस्था'-व्यवस्थानकम् , भवति, 'कुतः'-कस्मात् , 'आविरस्ति'-प्राकट्यं भवति, अस्य प्रश्नस्योत्तरमाह-निशम्यतामित्यादिना 'हे विचारसञ्चारितचित्तवृत्ते !'-विचारे सञ्चारिता-सञ्चारं नीता चित्तवृत्तिर्मनसो भावो येन स तथा तत्संबोधने, 'अयं'-पूर्वोक्तः, 'विचारः'-परामर्शः, 'सम्यग् '-समीचीनतया, 'निशम्यताम् '-श्रूयतां त्वया ॥१-४॥ मूलम्-निगोदजीवेषु सदैव दुःखं, यदस्ति तत्तादृशजातिभावात् । तथाविधक्षेत्रजनिप्रलम्भा-न्महार्तिदोदतथाप्रणोदात् ॥५॥ टीका-विचारमेव दर्शयति-निगोदजीवेष्वित्यादिना ' निगोदजीवेषु' यत् ' सदैव '-सर्वदैव, 'दुःखमस्ति'-दुःखं भवति, ' तत्'-दुःखं, ' तादृशजातिभावात् '-तथाविधजातिस्वभावात् , 'तथाविधक्षेत्रजनिप्रलम्भात्'-तादृशक्षेत्रोत्पत्तिप्राप्तेः, तथा 'महार्तिदोदर्कतथाप्रणोदात् '-महापीडादायकस्योत्तरकालभाविनः फलस्य तथाविधप्रेरणात् ॥ ५॥ मूलम्-यथैव लोके लवणोदवारि, क्षारं सदा दुःसहकर्मयोगात् । अनन्तकालेऽपि भवेन्न पेयं, यन्नैव वर्णान्तरमाश्रयेत ॥६॥ टीका-अत्र दृष्टान्तमाह-यथैवेत्यादिना ' यथैवेति '-तथाहीत्यर्थः, 'लोके '-संसारे, 'दुःसहकर्मयोगात् '-दुःखेन | सह्यानां कर्मणां संयोगेन, ' लवणोदवारि '-लवणसमुद्रस्य जलं, 'सदा'-सर्वदा, 'क्षारं'-क्षारत्वाविशिष्टम् भवति, तत्, १. उत्तरकालतादृप्रेरणात् ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy