________________
जैन
तत्त्वसार
॥ ५६ ॥
ये तेषु केचिद्व्यवहारराशि-मायान्ति ते स्युः क्रमतो विशिष्टाः । राशेः पुनर्ये व्यवहारनाम्नो, निर्गत्य जीवा अभियान्ति तेऽपि ॥ ३॥ निगोदजीवत्वमधो लभन्ते, कथं व्यवस्था कुत आविरस्ति । निशम्यतां सम्यगयं विचारो, विचारसञ्चारितचित्तवृत्ते ! ॥ ४॥
'
टीका- निगोदजीवानधिकृत्य प्रश्नयति-प्रश्न इत्यादिना ' हे पूज्याः ! ' हे माननीयाः !, ' तद्वत् ' - पूर्वानुसारेण, निगोदजीवानधिकृत्य ' - निगोदजीवानुद्दिश्य, 'पुनः पुनरपि एषः ' - वक्ष्यमाणः प्रश्नः पृच्छयते ' - पृच्छां नीयते, ' ये ' - निगोदजीवाः सन्ति, 'च' शब्दश्वरणपूत, 'केन' 'अशुभकर्मणा ' - निकृष्टकर्मणा, 'निगोद एव ' ' तिष्ठन्ति ' -स्थितिं कुर्वन्ति, ' यत् ' - यस्मात् कारणात्, 'ही' ति निश्चये, ' ते ' - निगोदजीवाः, ' जन्मात्ययम् ' -जन्मनो नाशम्, मरणमितिभावः, आचरन्तः ' - कुर्वन्तः, 'कर्माणि कर्त्तुं ' - कार्याणि विधातुम्, 'वेलां ' - समयं, ' न लभन्ति 'न प्राप्नुवन्ति, परस्मैपदं चिन्त्यम्, 'तत्' - तर्हि, ' दीनाः ' - दुःखिताः, ' ते ' - निगोदजीवाः, 'केन - कर्मणा, 'परेतदुःखानन्तव्यथां - परेता नारकास्तेषां यानि दुःखानि तेभ्योऽप्यनंतां व्यथां पीडां ' अनुभवन्ति - भोगे समानयन्ति, 'तेषु ' - निगोदजीवेषु, 'ये ' - केचित्, ' केsपि - निगोदजीवाः, 'व्यवहारराशिमायांति ' - अव्यवहारराशितो निष्क्रम्य व्यवहारराशि प्राप्नुवन्ति, ' ते ' - निगोदजीवाः, ' क्रमतः क्रमेण, 'विशिष्टाः स्युः 'उत्कृष्टा भवन्ति, ' अथे 'ति आनंतर्ये, 'पुनः ये जीवाः ' ' व्यवहारनाम्नो राशेः '-व्यवहारनामकाद्राशेः, 'निर्गत्य ' - निष्क्रम्य, ' अभियान्ति '
दशमोsधिकारः
॥ ५६