SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 545 टीका-फलितमाह-इत्थमित्यादिना 'ही 'ति निश्चये, 'अहो!'-इति विस्मये, ' इत्थम् '-उक्तप्रकारेण, 'सिद्धैः'सिद्धिं गतः, 'परिपूरितम् '-व्याप्तम्, 'शिवक्षेत्रं '-सिद्धक्षेत्रम्, 'कदा'-कदाचित् , 'संकीर्ण'-संकीर्णतायुक्तं, 'न भवेत् '-नैव भवति, तिथे 'ति समुच्चये, 'भोः' इत्यामंत्रणे, 'सिद्धपरंपराश्रिताः'-सिद्धपरंपराधीनाः सिद्धाः, 'सार्यबाधारहिताः'-संकीर्णत्वरूपबाधया विहीनाः, 'जयन्ति '-विजयिनो भवन्ति ॥ ११॥ श्रीजैनतत्वसारे एकसिद्धक्षेत्रेऽनेकसिद्धावस्थानाभिधानोक्तिलेशो नवमोऽधिकार: समाप्तः । अथ दशमोऽधिकारः निगोदजीवानामनन्तकालपर्यन्तम् निगोददुःखे वसनमित्यादि त्रयोदशश्लोकैराहमूलम्-प्रश्नः पुनः पृच्छयत एष पूज्याः1, निगोदजीवानधिकृत्य तद्वत् । निगोदजीवाश्च निगोद एव, तिष्ठन्ति केनाऽशुभकर्मणा ते यत्ते हि जन्मात्ययमाचरन्तः, कर्माणि कर्तुं न लभन्ति वेलाम् ।। तत्कर्मणा केन परेतदुःखा-नन्तव्यथां तेऽनुभवन्ति दीनाः ॥२॥ १. मरणम् । २. परेता नारकास्तेषां यानि दुःखानि तेभ्योऽप्यनन्ता व्यथा येषां ते । 0 56+
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy