________________
जैन
तत्त्वसार
॥ ५५ ॥
मूलम् - यथैव कस्यापि मनीषिणो हृदि, प्रभूतशास्त्राक्षरसङ्ग्रहे सति । साङ्कर्यमस्योरसि नैव जायते, न चाक्षराणां परिपिण्डता भवेत् ॥ ९ ॥ एवं चिदाश्लिष्टदिवः समन्ततो, न ब्रह्मभिर्ब्रह्म परम्पराश्रितैः । सङ्कीर्णताsaो नभसा न ब्रह्मणा-मिह प्रवीणा इति संविदा जगुः ॥ १० ॥
टीका - अस्योत्तरमाह-यथैवेत्यादिना ' यथैव ' - येन प्रकारेणैव, ' कस्यापि '- कस्यचित्, 'मनीषिणः 'बुद्धिमतः, 'हृदि ' - हृदये, 'प्रभूतशास्त्राक्षरसंग्रहे सति'-बहूनां शास्त्राणाम् वर्णानाम् संग्रहे जाते सत्यपि, 'अस्य'- मनीषिणः, 'उरसि’वक्षःस्थले, ' सांकर्य'- संकीर्णत्वम्, 'नैव जायते न भवति, 'च'- पुनः, 'अक्षराणां ' - वर्णानाम्, 'परिपिण्डता 'पिंडी भावोऽपि न भवेत् न भवति, दृष्टान्तं दान्ते घटयति- एवमित्यादिना ' एवम् ' -उक्तप्रकारेण, ' समन्ततः - परितः, 'ब्रह्मपरंपराश्रितैः'-ज्ञानपरंपराधीनैज्योतिः परं पराधीनैर्वा, 'ब्रह्मभिः ' - ज्ञानैज्योतिभिर्वा, 'चिदाश्लिष्टदिव: ' - ज्ञानसंश्लिष्टक्षेत्रस्य, ज्योतिःसंश्लिष्टक्षेत्रस्य वा, ' संकीर्णता '- संकीर्णत्वम्, न भवति, ' अथे 'ति समुच्चये, 'नभसा' - आकाशेन, क्षेत्रस्थाकाशेनेतिभावः, ' ब्रह्मणां ' - ज्ञानानां ज्योतिषां वा न संकीर्णता भवति, 'इह ' -अस्मिन्संसारे, ' प्रवीणाः - चतुराः, 'संविदा ' - ज्ञानेन, ' इति - एतत्पूर्वोक्तम्, 'जगुः - कथयामासुः ॥ ९-१० ।।
मूलम् - इत्थं हि सिद्धैः परिपूरितं शिव-क्षेत्रं न सङ्कीर्णमहो ! भवेत्कदा । सिद्धास्तथा सिद्धपरम्पराश्रिताः, साङ्कर्यबाधारहिता जयन्ति भोः ॥ ११ ॥
नवमोऽधिकार:
॥ ५५ ॥