SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 'ब्रह्मणि ब्रह्म लीयते'-ब्रह्मविषये ब्रह्म लयं याति, 'अथ'-अनन्तरम्, 'तथेति समुच्चये, 'ज्योतिः सम्मिलति'ज्योतिर्विषये ज्योतिः सम्मेलं प्राप्नोति, 'इति'-एषा, 'गीः'-वाणी, कथनमित्यर्थो भवति, अत्र पुष्टिमाह-अयमित्यादिना 'मुनिभिः'-महात्मभिः, 'अयं'-पूर्वोक्तः, 'प्रवादः'-कथनं, 'समाश्रितः '-अवलम्बितः, आहत इतिभावः, कथंभूतैर्मुनिभिः १ — पुरातनैः '-प्राचीनैः, पुनश्च कथंभूतैः ? — ब्रह्मयथार्थवेदिभिः 'ब्रह्मशब्द-सत्यार्थज्ञातृभिः ॥५-६-७॥ ब्रह्मसिद्धयोरसंकीर्णतां श्लोकचतुष्टयेनाहमूलम्-एवं सति प्राज्ञवराः! कथं न तत् , क्षेत्रस्य सार्यमथो भवेत्तथा। परस्परालिङ्गितब्रह्मणोऽप्यहो!, संकीर्णता केन भवेन्न तत्र ॥८॥ टीका-अत्र वादी पुनः शङ्कते-एवं सतीत्यादि 'अथो'-प्रश्नद्योतने, 'हे प्राज्ञवराः !'-हे विद्वच्छ्रेष्ठाः,' एवं डू सति'-उक्तविषयाभ्युपगमे सति, 'तत् '-प्रसिद्धम् , 'क्षेत्रस्य' 'सांकर्य'-संकीर्णत्वं, 'कथं '-कुतः? 'न भवेत् 'न जायते, 'तथे 'ति समुच्चये, 'अहो!'-इति विस्मये, 'तत्र'-तस्मिन् स्थले, 'परस्परालिङ्गितब्रह्मणोऽपि '-मिथः | कृतालिङ्गनस्य ज्ञानस्यापि ज्योतिषोऽपि वा, ‘संकीर्णता'-संकीर्णत्वम् , सांकर्यमिति यावत् , ' केन'-कारणेन, 'न | भवेत् '-न भवति ॥८॥ १. मिथो मिलितज्ञानस्य ज्योतिषो वा।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy