SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार नवमो. धिकारः ॥५४॥ तावद् द्वितीयस्य तृतीयकस्य, सिद्धस्य ब्रह्माश्रयते तदेव ।। एवं ह्यनंन्तामितसिद्धनाम्नां, ब्रह्माश्रयेत् क्षेत्रमहो तदाश्रितम् ॥ ६ ॥ तेनेति गीब्रह्मणि ब्रह्म लीयते, ज्योतिस्तथा ज्योतिषि सम्मिलत्यथ । अयं प्रवादो मुनिभिः पुरातनैः, समाश्रितो ब्रह्मयथार्थवेदिभिः ॥७॥ टीका-अस्योत्तरमाह-निशम्यतामित्यादिना 'निशम्यतां'-श्रूयताम् त्वया, 'विज्ञाः '-तत्वविदः, ' इदं'-प्रसिद्ध, 'ज्ञानं'-ब्रह्म इति, 'वदन्ति '-ब्रह्मनाम्ना कथयन्ति, 'वा'-अथवा, 'अथे 'ति अनंतरे, 'इदं'-ज्ञानम् , 'ज्योतिरिति 'ज्योतिर्नाम्ना वदति । विज्ञा ब्रह्मशब्दवाच्यं ज्ञानम् ज्योतिर्वा कथयन्तीतिभावः, तेन किमुक्तं भवतीत्याह-तदेकेत्यादिना 'ही'ति निश्चये, 'तत्-तस्मात् कारणात् , 'एकसिद्धस्य'-एकस्य सिद्धस्य, 'ब्रह्म'-ज्ञानं ज्योतिर्वा कर्तृपदं, 'सर्वदिशासु'सकलासु दिशासु, ' यावत् '-यत् परिमाणकं, 'अनन्तम् '-अन्तरहितम् , 'क्षेत्रं ' 'श्रयेत् '-आश्रयति, 'द्वितीयस्य'अपरस्य, तथा 'तृतीयकस्य -तृतीयस्य, 'सिद्धस्य ' 'ब्रह्म'-ज्ञानं ज्योतिर्वा, 'तावत् '-परिमाणकं, 'तदेव'-सर्वासु दिशासु, 'अनंतं क्षेत्रमेव ' 'आश्रयते'-आश्रितं करोति, 'एवम् '-अनया रीत्या,'ही'ति निश्चये, 'अहो' इति विस्मये, 'अनन्तामितसिद्धनाम्नां'-अनन्ता अत एवामिता ये सिद्धा इति नामानस्तेषां, 'ब्रह्म'-ज्ञानं ज्योतिर्वा, 'तदाश्रितम्'| सिद्धज्ञानाश्रितम् , सिद्धज्योतिराश्रितं वा, 'क्षेत्रम् ' 'आश्रयेत् '-आश्रयति, फलितमाह-तेनेत्यादिना 'तेन'-कारणेन, १. शानम् । २. अनन्ता अत एवामिता ये सिद्धा इतिनामानः । ३. ज्ञानं ज्योतिर्वा । ४. सिद्धज्ञानाश्रितम् । ५. ब्रह्मशब्दार्थवेदिभिः । ASHARAHA
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy