SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ जन तत्त्वसार ३ ५३ ॥ कालादि पञ्चभ्यो जगदुत्पत्तिं तत्प्रलयञ्च लोकद्वयेनाह - मूलम् - स्वामिन्! यदीयं न हि सृष्टिरुत्थिता, सकाशतो ब्रह्मण इत्यवाचि चेत् । इयं कुतः स्यादपयाति वा कुतो, निगद्यतामद्य रहस्यमेतकद् ॥ २ ॥ टीका - ब्रह्मस्वरूपमवगत्य जगत्सृष्टिसंहारविषये प्रश्नयति स्वामिन्नित्यादिना ' हे स्वामिन्! 'हे प्रभो !, ' यदीयं - पूर्वोक्ता सृष्टिः- जगद्रचना, 'ब्रह्मणः सकाशतः ' ब्रह्मणोऽतिकात्, 'न ह्युत्थिता' - नोत्पन्ना, ' इति ' - एतत्, ' चेत् ' - इति चरणपूर्ती, 'अवाचि ' -उक्तं भवता, तर्हि इयं सृष्टिः कुतः स्यात् ? कस्माद् भवेत् ? ' वा ' अथवा 'कुतोऽपयाति '- कस्मात् संहारं प्राप्नोति, ' अद्य ' - इदानीम् एतत् ' - एतत्, 'रहस्यम् 'गूढबूतं, 'निगद्यताम् - कथ्यताम् भवता ॥ २ ॥ मूलम् -- त्रिकालविज्ञा इति योगिनो ये, निरागिणस्तेऽभिदधुर्विशिष्टाः । कालात्स्वभावान्नियतेश्च वीर्यतः, सृष्टिक्षयौ स्तः संमवायपञ्चकात् ॥ ३ ॥ टीका — उक्तप्रश्नस्योत्तरमाह - त्रिकालविज्ञा इत्यादिना 'ये विशिष्टाः - महान्तो जनाः सन्ति कथंभूता विशिष्टाः ? ' त्रिकालविज्ञाः '- भूतभविष्यद्वर्त्तमानकालस्थपदार्थज्ञातारः, पुनः कथंभूताः ? ' योगिनः '- योगाभ्यासकर्तारः, पुनः कथंभूताः ? ' निरागिणी ' - रागरहिताः, निशब्दोऽत्र निःशब्दार्थः, ते इति - एतद्वक्ष्यमाणम्, अभिदधुः । - कथयामासुः, यत् ' कालात् ' - कालसकाशात्, 'स्वभावात् ' - स्वभावसकाशात्, 'नियतेः '-नियतिसकाशात् 'वीर्यतः - उद्यमाच्च १. कालः स्वभावनियती, पूर्वकृतं पुरुषकारणं पञ्च । समवाये सम्यक्त्वमेकत्वे भवति मिध्यात्वम् ॥ इति जैनतत्त्वम् । नवमोऽधिकारः ॥ ५३ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy