________________
कर्मण इत्यवगन्तव्यम् 'एतस्मात् ', समवायपञ्चकात्'-पञ्चानां समवायात् , ' सृष्टिक्षयौ स्तः'-सर्जनसंहारौ भवतः ॥३॥
ब्रह्मणो ब्रह्मणि लीनत्वं, ज्योतिषि ज्योतिषो मेलनं श्लोकचतुष्टयेनाहमूलम्-मुनीश्वराः! ब्रह्मणि ब्रह्म लीयते, ज्योतिस्तथा ज्योतिषि संविशेदिति ।
- कथं प्रवादो घटते महात्मना-मयं विना ब्रह्म पुराणवेदिनाम् ॥ ४ ॥ टीका-ब्रह्मणोऽभावे दूषणं भवतीत्याशंकामाह-मुनीश्वरा इत्यादिना ' हे मुनीश्वरा!'-हे मुनिराजाः!, 'ब्रह्मणि ब्रह्म लीयते '-ब्रह्मविषये ब्रह्म लयं याति, 'तथे 'ति समुच्चये, 'ज्योतिषि ज्योतिः संविशेत् '-ज्योतिर्विषये ज्योतिः संविष्टं भवति, 'इत्ययम् '-इत्येषः, 'महात्मना'-महोदयानां, 'प्रवादः'-कथनम् , 'ब्रह्म विना '-ब्रह्मांतरेण, ब्रह्मण्यसतीतिभावः, 'कथं'-केन प्रकारेण, 'घटते '-सिद्धथति, कथंभूतानाम् महात्मनाम् ? 'पुराणवेदिनाम् '-पुरातनतत्त्वज्ञातृणाम् ॥ ४॥ | मूलम्-निशम्यतां ज्ञानमिदं वदन्ति, ब्रह्मेति वा ज्योतिरथेति विज्ञाः।
तदेकसिद्धस्य हि ब्रह्म यावत्, क्षेत्रं श्रयेत्सर्वदिशास्वनन्तम् ॥५॥ १. पुरातनतत्त्वविदाम् । २. ब्रह्मशब्देन शानमुक्तमनेकार्थे, तदेव ज्ञानं प्रकाशकत्वात् ज्योतिरिव ज्योतिरिति ज्योतिरपि लोका व्यवहरन्ति तत एकस्यापि परमज्ञानस्य ब्रह्म ज्योतिश्चेति नामद्वयं लोकाः श्रितास्ततो लोकाशयेनोच्यते ब्रह्मेति ज्ञान ज्योतिर्वेति ।