SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ D अथ नवमोऽधिकारः ब्रह्मणः स्वरूपम्मूलम्-किं ब्रह्म सिद्धापरनामकीर्तितं, ध्येयं मुनीनामपि शुद्धचेतसाम् । भवार्णवे यानवदेव योगिनो, जानन्ति यन्मुक्तिगृहं यियासवः ॥१॥ टीका-इदानी ब्रह्मविषये प्रश्नयति-किं ब्रह्मेत्यादिना हे स्वामिन् ! ब्रह्म 'किं'-कीदृग्रूपमस्ति ? उत्तरमाह-सिद्धाप8| रेत्यादिना यत् 'सिद्धापरनामकीर्त्तितं'-सिद्धेत्यपरनाम्ना कथितम् , ' मुनीनामपि ध्येयम् '-ऋषीणामपि ध्यातुम् योग्यम् , किं पुनरन्येषामित्यपि शब्दभावः, कथंभूतानां मुनीनां ? 'शुद्धचेतसाम्'-निर्मलमानसानाम् , यच्च भवार्णवे'-संसारसागरे, PI'योगिनः'-योगाभ्यासकर्तारः, 'यानवदेव'-प्रवहणतुल्यमेव, 'जानन्ति'-बुध्यन्ते, कथंभूता योगिनः १ 'मुक्तिगृह'मोक्षपदं, 'यियासवः'-गन्तुमिच्छवः, तत् ब्रह्मास्ति ॥१॥ १. अथ जिज्ञासुः पृच्छति ब्रह्मभूयमित्यत्र किं नाम ब्रह्मेत्युक्ते तजिज्ञासोराशयेन वदति सिद्धान्ती । २. यत् सिद्धापरनाम है ब्रह्म भवार्णवे संसारसागरे योगिनः मुक्तिरूपं गृहं प्रति प्राप्तुकामाः प्रवहणवत् आमनन्ति । गृहप्रवेशे तु कर्त्तव्ये यथा प्रवहणं | परित्यज्यते तथा मुक्तिगृहगमनावसरे सिद्धध्यानमपि संत्यज्यात्मध्यानं च समभावलक्षणमाश्रित्य मुक्तिगृहं प्रविशन्तीतिभावः । RONTERROR
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy