________________
जैनतत्त्वसार
| अष्टमोऽधिकार
टीका-आस्तामयमित्यादि 'अयम्'-प्रसिद्धः, 'श्रीपरमेष्ठिनामा'-श्रीपरमेष्ठिनामक, आस्ताम्'-तिष्ठतु, 'तव्यानवान्'श्रीपरमेष्ठिध्यानकर्ता, 'एषः'-प्रसिद्धः, 'जन'-नरः, 'आत्मनि'-स्वस्मिन् , 'सुखस्य'-सौख्यस्य, 'संविधानात् '-करणात् , 'कर्ता'-कारकः, 'अभिनिष्यात् '-भवेत् , 'च'-पुनः, 'आत्मतमोपहारात् '-स्वांधकारनाशात् , 'संहारकः'-संहारकर्ता स्यात् , श्रीपरमेष्ठिध्यानकर्ता जन आत्मनि सुखकरणात् कर्ता आत्मांधकारनाशाच्च संहारको भवितुमर्हतीतिभावः ॥ ६५ ॥ मूलम्-यथैव लोके किल कोऽपि शूरः, स्वाम्यात्तशस्त्रैरपि सर्वशत्रून् ।
सञ्जित्य तत्संहृतिकृन्निजाङ्गे, सुखस्य कृत्यापि भवेत्स कर्ता ॥६६॥ ___टीका-अत्रैव लौकिकोदाहरणमाह-यथैवेत्यादिना ' यथैवे 'ति तथाहीत्यर्थः, 'किले 'ति निश्चये, 'लोके'-संसारे, 'कोऽपि '-कश्चित् , 'शूरः'-वीरः, ' स्वाम्यात्तशस्त्रैरपि '-स्वामिसकाशात् गृहीतैः शस्त्रैरपि, 'सर्वशत्रून् सञ्जित्य 'सकलशत्रूणां पराजयं कृत्वा, तत् ' संहृतिकृत्-शत्रुसंहृतिकर्ता भवति, तथा 'निजाङ्गे'-स्वशरीरे, 'सुखस्य '-सौख्यस्य, ‘कृत्यापि'-कारणेनापि, 'कर्ता'-कारको, ‘भवेति'-भवत् , शत्रुसंहारकरणात् स संहर्ताऽऽत्मनि सुखोपादनाच्च स कर्लोच्यत इतिभावः ॥ ६६ ॥
मूलम्-यथाऽत्र शस्त्रादिकवस्तुनेतुः, स्थाने स्थितस्यापि न हि प्रयासः।
तथेश्वरस्यापि भवेन्न काचित्, क्रिया यतो निष्क्रियतापि सिद्धा ॥६७ ॥ १. स्वामिनः।
॥ ५१ ॥