SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ " टीका - उदाहरणविस्पष्टेन फलितमाह-यथेत्यादिना ' यथा ' - येन प्रकारेण, ' अत्र ' - अस्मिन् संसारे, 'स्थाने स्थि तस्याऽपि ' - स्वस्थले उपविष्टस्याऽपि शस्त्रादिकवस्तुनेतुः ' - शस्त्रादिपदार्थस्वामिनः, 'ही 'ति निश्चये, ' प्रयास: 'परिश्रमः, न भवति ' तथा ' - तेनैव प्रकारेण, 'ईश्वरस्याऽपि ' - परमेश्वरस्याऽपि, ' काचित् ' - काऽपि, 'क्रिया' - कृत्यं, ' न भवेत् ' - न भवति, ' यत इति ' अस्मात्कारणादित्यर्थः, 'निष्क्रियतापि ' - निष्क्रियत्वमपि क्रियारहितत्वमितिभावः, ईश्वरस्यापि, सिद्धाः ' - सिद्धिमुपगताः ॥ ६७ ॥ मूलम् - शरोऽपि चैवं सति शस्त्रे भर्तृ-र्महोपकारं किल मन्यतेऽसौ । अधीशभक्तोऽपि तदीयनाम-ध्यानोत्थसौख्यस्तैकमेव वक्ति ॥ ६८ ॥ टीका - उक्तविषयमेव विस्पष्टयति- शूरोऽपीत्यादिना ' एवं च सती' ति उक्तवृते सतीत्यर्थः, 'असौ ' - पूर्वोक्तः, ' शूरोऽपि ' - वीरोऽपि, 'किले 'ति निश्वये, ' शस्त्रभर्तृ: ' - शस्त्रस्वामिनः, ' महोपकारं '- महतीमुपकृर्ति, ' मन्यते ' -जानाति, दान्ते योजनामाह- अधीशेत्यादिना एवम् ' तदीयनामध्यानोत्थसौख्यः ' - ईश्वरनामध्यानेन उत्पन्नं सुखम् यस्मै, 'सः' - एवंभूतः, ' अधीशभक्तोऽपि ' - ईश्वरभजनकर्त्ताऽपि, ' तकमेव ' - उत्पन्नसुखकारकमधीश मेवेत्यर्थः, 'वक्ति - कथयति, यथा शूरः कार्यसिद्धौ शस्त्रस्वामिमहोपकारं मन्यते तथेश्वरनामध्यानोत्पन्नसुखं ईश्वरभक्तोऽपि तत्सुखकर्त्तारमीश्वरमेव वक्तीत्यर्थः ॥ ६८ ॥ १. शस्त्रनायकस्य । २. तत्सौख्यकरं तमघीशमेव वक्ति तस्य सेवकत्वात् ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy