SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ S+C मूलम्-दौर्गत्यदुःखे सुगतिं सुखं च, प्राप्नोति तादृक्कृतकर्मयोगात् । जीवो यदा त्वेष समानभावं, येत्तदा गच्छति ब्रह्मभूयम् ॥ ६३ ॥ टीका-जीवानां सुखदुःखविषये सिद्धान्तमाह-दौर्गत्येत्यादिना 'जीवः'-जन्तुः, 'तादृक्कृतकर्मयोगात् '-तथाहै| विधं विहितकर्मसंयोगेन, 'दौर्गत्यदुःखे'-दुर्गतिं दुःखं च, पुनः 'सुगति'-शोभनां गति, 'सुखं'-सौख्यं च, 'प्राप्नोति'-12 लभते, 'यदा'-यस्मिन्काले, तु, एषः जीवः, 'समानभावम् '-समत्वम् , रागद्वेषविरहितत्वमित्यर्थः, 'श्रयेत् 'आश्रयति, 'तदा'-तस्मिन्काले, 'ब्रह्मभूयं'-ब्रह्मत्वं, 'गच्छति'-प्राप्नोति ।। ६३ ॥ मूलम्-तुष्टिर्जनानां परमेश्वरस्य, चेत्सृष्टिसंहारकथाप्रवृत्त्या। स्फूर्तिप्रभावप्रतिपादनार्थ, तदेति वाच्या स्तुतिरीश्वरस्य ।। ६४ ॥ ___टीका-तुष्टिरित्यादि ' चेत् '-यदि, 'परमेश्वरस्य'-शिवस्य, 'सृष्टिसंहारकथाप्रवृत्त्या'-जगद्रचनतत्संहारवार्तायाः | प्रवृत्तेः, 'जनानां'-मनुष्याणाम् , 'तुष्टिः'-प्रसादो भवतीति, 'तदा'-तर्हि, 'स्फूर्तिप्रभावप्रतिपादनार्थ'-दीप्तिप्रतापकथनार्थम् , 'इति'-अनया रीत्या, ईश्वरस्य, ' स्तुतिः'-स्तवः, 'वाच्या'-कथनीया भवति ॥ ६४ ॥ मूलम्-आस्तामयं श्रीपरमेष्ठिनामा, तझ्यानवानेष जनोऽभिनिष्योत् । कर्ता सुखस्यात्मनि संविधानात्, संहारकश्चात्मतमोपहारात् ॥६५॥ १. ब्रह्मत्वं । २. स्यात् । 5453
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy