________________
जैनतत्त्वसार
अष्टमोऽधिकार
॥ ५० ॥
विनाशयन्ति, अनाद्रियंत इतिभावः, कथंभूतान् सर्वसद्पगुणान् ? ' अदोषान्'-दोषरहितान् , पुनः कथंभूतान् ? ' वरांशान् '-ईश्वरस्य श्रेष्ठभागस्वरूपान् ॥ ६१॥
कर्मणा जीवस्य सुखदुःखादिर्भवति, तथापि परमेश्वरे कर्तृत्वारोपणं श्लोकाष्टकेनाहमूलम्-किं तर्हि वाच्यं शृणु किञ्चिदस्ति, ज्योतिर्मयं चिन्मयमेकरूपम् ।
द्रष्ट प्रजानां सुखदुःखहेतुं, योगीश्वरध्येयतमस्वभावम् ॥ १२ ॥ ___टीका-अत्र स्वसिद्धान्तं दर्शयितुमाह-किं तीत्यादि 'किमि 'ति-यदि त्वमेवं ब्रूया यत्तर्हि किमस्तीतिभावः, ' तर्हि '-तदा, "किंचित् '-किमपि, ‘वाच्यमस्ति'-कथनीयं विद्यते, तत् , 'शृणु'-निशामय, स्वब्रह्मैवमस्ति, कथंभूतम् ? इत्याह-ज्योतिरित्यादिना 'ज्योतिर्मयं '-प्रकाशस्वरूपम् , पुनः कथंभूतम् ? 'चिन्मयं '-ज्ञानस्वरूपम् , पुनः कथंभूतम् ? ' एकरूपम् '-अद्वितीयस्वरूपम् , पुनः कथंभूतम् ? 'प्रजानां सुखदुःखहेतुं'-द्रष्टलोकानां सुखदुःखकारणम् , पुण्यपापदर्शकम् , पुनश्च कथंभूतम् ? ' योगीश्वरध्येयतमस्वभावम् '-योगीश्वरैयोगिराजैर्येयतमोऽति शयेन चिन्त्यः स्वभावो यस्य तत्तथा ।। ६२॥
१. सिद्धान्ती स्वेष्टं परब्रह्मपरमेष्ठिलक्षणमपरनामसिद्धाख्यं निरूपयति । २. दर्शकम् । ३. लोकानां सम्बन्धिनम् । ४. पुण्यपापलक्षणं प्रति पुण्यपापयोस्तस्य दर्शकत्वे तयोस्तत्तत्फलवत्त्वं स्यात् यथा साक्षिणि सति पुण्यपापयोः फलाफलोपलम्भः सुलभो भवति लोका अपि वदन्ति सर्वे कृतं शुभाशुभं भगवान् वेत्तीति तात्पर्यार्थः ॥
COOLGAOCOGANSACCSCARSONG
॥५०॥