________________
%A4AARAAT
तस्मिन् , पुनः कथंभूते ? ' दौर्गत्यदौस्थ्यादिमये '-दौर्गत्यं-दुर्गतिः दौस्थ्यं-दुःखस्थानम् इत्यादिभियुक्ते ॥ ५९॥ मूलम्--एषा तु लीलाऽस्ति यदीश्वरस्य, संसार एवैष ततस्तदिष्टः ।
तदा तु संसारिजनैस्तदाप्त्यै, कष्टादि केनाथ विधेयमुग्रम् ॥ ६॥ टीका-वादिपक्षपरिहरणपूर्वकं पुनर्दोषमाह-एषा त्वित्यादिना 'यदि -चेत् , 'एषा'-पूर्वोक्ता, तु, 'ईश्वरस्य'जगत्स्वामिनः, 'लीला'-क्रीडास्ति, 'ततः'-तर्हि, 'एषः'-दौगत्यादिमयः, 'संसार:'-भव एव, 'तदिष्टःईश्वरस्याऽभीष्टोऽस्ति, 'तु' शब्दो विशेषणार्थः, 'अथे 'ति वितर्के, तदा 'संसारिजनैः'-भववर्तिभिर्मनुष्यैः, तदात्यैरीश्वरस्य प्राप्तये उग्रं कष्टादि तीक्ष्णं क्लेशप्रभृतिदुस्तरतपश्चर्यादीतिभावः, 'केन'-कारणेन, 'विधेयम्'-कर्त्तव्यमस्ति, यदीश्वरस्य संसार एवाभीष्टस्तर्हि सांसारिकजनैस्तत्प्राप्तये दुस्तरतपश्चर्यादिकृत्यं किमर्थं क्रियत इतिभावः ॥६॥
मूलम्-पूर्वापरानाश्रितवाक्यमेतत्, प्रजल्पतां कापि न वाक्प्रतीतिः।
- य सर्वसद्पगुणानदोषान् , कर्तुर्वरांशानिति पातयन्ति ॥ ६१ ॥ टीका-फलितमाह-पूर्वापरेत्यादिना 'एतत् '-पूर्वोक्तं, 'पूर्वापरानाश्रितवाक्यं '-पूर्वापरासंबंद्धवचनम् , 'प्रजल्पताम्'-कथयताम् , ' तेषां'-यवनाचार्यादीनाम् , 'काऽपि'-काचिदपि, 'वाक्प्रतीतिः'-वचनेषु विश्वासो न भवति, | ये, 'कर्तुः'-जगदीश्वरस्य, 'सर्वसद्रूपगुणान् '-सर्वोत्तमस्वरूपान् गुणान् , इति 'एतेन '-उक्तप्रकारेण, 'पातयन्ति'
१. परमेश्वरस्येष्टः । २. परमेश्वरप्राप्यै ।