________________
जैन
अष्टमीधिकारः
तत्त्वसार
पवित्रीकुर्वन् , अस्ति तथा 'ज्योतिर्मयाद्योत्थगुणैः'-ज्योतिर्मयप्रभृत्युत्पन्नैर्गुणैः, 'विशिष्टः'-युक्तोऽस्ति, 'सः'-पूर्वोक्तः, 'अयं '-प्रसिद्धो जगदीश्वरः, 'चेत् '-यदि, 'स्वकांशान्'-आत्मनोऽशान् , जंतून् , ' स्वरसात् '-आत्मन आनंदहेतोः, आत्मनो लीलादिरसेनेतिभावः, 'विमोहे '-मोहयुक्ते, 'संसारभावे '-संसारित्वे, “विरचय्य'-निर्माय, 'सद्यः'-शीघ्रम् , 'एवम् '-उक्तप्रकारं, 'बहुदुःखपात्रम् '-अनेकदुःखानां स्थानं, ' जीवत्वं '-जीवभावं, 'नुदति '-प्रेरयति, ' तर्हि '-तदा, 'इमे'-प्रसिद्धाः, 'प्राणभृतः '-प्राणिनः, 'कर्तुः '-जगत्कारकस्य, ' अंशाः '-अवयवाः, 'नहि '-नैव, सन्ति, 'यत्'यस्मात्कारणात् , ' अपरे'-भिन्नाः सन्ति ।। ५७-५८ ॥ मूलम्-कर्ता कथं सङ्कटपेटकोदरे, दौर्गत्यदौस्थ्यादिमये भवेऽस्मिन् ।
जानन्निजांशान्सहसैव नुद्यात्, स्वकस्वरूपाद्विनिपात्य रम्यात् ॥ ५९॥ टीका-जीवप्रेरणविषय एव पुनर्दोषमाह-कर्तेत्यादिना 'कर्ता'-जगदीशः, 'निजांशान्'-स्वांशरूपान् , 'सहसैव'अविचार्यैव, 'अस्मिन् '--पूर्वोक्ते भवे-संसारे, 'कथं '-केन प्रकारेण, 'नुद्यात् '-प्रेरयेत् , कथं प्रेरयितुं शक्नोतीतिभावः, कथंभूतः कर्त्ता ? ' जानन् '-विदन् , संसारस्थदुःखादिकं जानानोऽपीत्यर्थः, किं कृत्वा नुद्यादित्याह-स्वकेत्यादि ' स्वकस्वरूपात् '-निजस्वरूपात् , 'विनिपात्य'-पातयित्वा, प्रच्याव्येति यावत् , कथंभूतात् स्वकस्वरूपात् ? ' रम्यात् '-रमणीयात् , मनोहरादित्यर्थः, कथंभूते भवे ? संकटपेटकोदरे'-संकटानाम्-दुःखानां पेटक-मंजूषा उदरे-गर्भे यस्य स तथा
१. पातयित्वा ।
॥४९
॥