SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ***% AKARSHA ईश्वरेण एव, 'समा'-सर्वा, 'निषिद्धाऽस्ति'-प्रतिषिद्धा वर्तते ॥ ५४-५५ ।। मूलम्-अन्यानिषेधन्पुनरात्मना सृजं-स्तदा स कोऽतीव विनिन्दितः स्यात् । - एवं त्वनालोचनकर्मकारं, वयं न कर्तारमिमं वदामः ॥५६ ॥ टीका-उक्तविषय एव आह-अन्यानित्यादि यदा यः 'अन्यान् '-परान्, 'निषेधन् '-प्रतिवारयन् , 'पुनः'-परन्तु, 'आत्मना'-स्वेन, 'सृजन्'-कुर्वन् , भवतीतिशेषः, ‘स कः'-सः, 'तदा'-तस्मिन् काले, 'अतीव'-अत्यन्तं, 'विनिन्दितः'कुत्सितः, ' स्यात् '-भवति, फलितमाह-एवमित्यादिना 'तु' शब्दो विशेषणार्थः, 'एवम्'-उक्तप्रकारम् , 'अनालोचनकर्मकारम् '-असमीक्ष्य कारिणम् , ' इम'-पूर्वोक्तं, 'कर्तारं '-कारकम् , ' न वदामः'-न कथयामः ॥ ५६ ॥ मूलम्-यत्वदचोन्यासभरैः स कर्ता, पूतः स्वयं स्वीयजनान्पुनानः। ज्योतिर्मयाद्योत्थगुणैर्विशिष्टः, सोऽपि स्वकांशान्स्वरसाद्विमोहे ।। ५७ ॥ संसारभावे विरचय्य सद्यो, जीवत्वमेवं बहुदुःखपात्रं ।। नुदत्ययं चेन्नहि तर्हि कर्तु-रंशा इमे प्राणभृतोऽपरे यत् ॥५८॥ टीका-अत्र पुष्टिमाह-यत्त्वदित्यादिना ' यत् '-यस्मात्कारणात् , ' त्वद्वचोन्यासभरैः '-तव वाक्योपन्यसनसमुदायैः, 'स:'-पूर्वोक्तः, 'कर्ता'-कारकः, ' स्वयं'-स्वतः, 'पूतः'-पवित्रोऽस्ति, 'स्वीयजनान्'-स्वमनुष्यान् , 'पुनानः १. मागेव ब्रह्मलक्षणसदृशलक्षणः त्वदुक्तः कर्ता । २. स्वकीयात् कस्माञ्चिल्लीलादिरसात् ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy