________________
मूलम्-कृत्वा नवानेव यदैव जन्तून् , संसारिभावं प्रति लाभयेचेत् ।
मौलान् कथं मोचयितुं क्षमो न, येन स्वक्लप्तानिति किं विडम्बयेत? ॥१२॥ टीका-द्वितीयपक्षे दोषमाह-कृत्वेत्यादिना 'चेत् '-यदि, 'यदा'-यस्मिन्काले, 'एव'-शब्दश्चरणपूर्ती. 'नवानेव'नवीनानेव, 'जंतून् '-प्राणिनः, 'कृत्वा'-विधाय, 'संसारिभावं प्रति '-संसारित्वमुद्दिश्य, 'लाभयेत् । “जंतून ''मोचयितुम् '-मुक्तान् कर्तु, 'कथं '-कुतः, 'क्षमः'-समर्थो न भवति, 'येन'-कारणेन, 'स्वक्लप्तान '-स्वकृतान जंतून् , ' इति '-अनया रीत्या, 'सः' ' किं विडम्बयेत् '-कुतो विडंबितान् करोति ॥ ५२ ॥
मूलम्-कृतानपीत्थं यदि संहरेत् पुनः, कोऽयं विवेको जगदीशितुः सतः।
बालोऽपि यो वस्तु निजं प्रक्लुप्तं, धर्तुं क्षमस्तावदयं दधाति ॥५३॥ टीका-उक्तपक्ष एव दोषमाह-कृतानित्यादिना यदि 'कृतानपि'-विहितानपि जंतून् , 'पुन:'-पश्चात् , ' इत्थम् - उक्तप्रकारेण, 'संहरेत् '-नाशयेत् , तर्हि 'सतः '-श्रेष्ठस्य, 'जगदीशितुः'-जगत्स्वामिनः, विष्णोरित्यर्थः, 'अयं'पूर्वोक्तः, 'को विवेकः '-विचारशीलत्वमस्ति, जंतून् कृत्वा तत्संहारकरणे न कोऽपि विष्णोविवेक इतिभावः। अत्रैव पुष्टिमाह-बालोऽपीत्यादिना ' यो बालोऽपि ' बालकोऽपि भवति सः, 'निजम्'-आत्मीय, ' प्रक्लुप्तं'-कृतं वस्तु यावत् , 'धर्तु'-रक्षितुम् , 'क्षमः'-शक्तो भवति, तावत् 'तत्कालपर्यन्तम् , ' अयं'-बालः, 'दधाति '-धर्ते, 'सुरक्षितं'
१. प्रापयेत् । २. स्वकृतान् । ३. रक्षति ।