________________
जैनतत्त्वसार
अष्टमोऽधिकार
लम्जा
मूलम्-इष्ट पदे चत्परिरक्ष्य जीवान् , यः कार्यकाले प्रकटीकरोति ।
सोऽस्मादृशः कर्मणि वस्तुरक्षी, प्रस्तावनोप्राप्तिभयाद्विभीतः ॥ ५० ॥ टीका-वार्तामेवाह-इष्ट इत्यादिना 'चेत्-यदि, ' इष्टे पदे '-स्वाभीष्टे स्थाने, “जीवान् '-प्राणिनः, 'परिरक्ष्य'-1 रक्षित्वा, ' यः'-कर्ता, 'कार्यकाले'-कार्यावसरे, 'प्रकटीकरोति'-प्रादुर्भावयति, तर्हि 'सः'-पूर्वोक्तः कर्ता, 'कर्मणि'क्रियावसरे, 'अस्मादृशः'-अस्माभिस्तुल्यः, 'वस्तुरक्षी '-पदार्थरक्षको भवति, कथंभूतः स वस्तुरक्षी कर्त्तत्याह-प्रस्तावेत्यादि ' प्रस्तावनो प्राप्तिभयाद् विभीतः'-प्रस्तावे-अवसरे या नो प्राप्तिरप्राप्तिस्तथा भयाद्-भीतेर्विभीतः-भयं प्राप्तः ॥५०॥ मूलम्-अशक्तिरप्यस्य निवेदिता य-नो भिन्नभिन्नार्थकमेलवीर्यः।।
कर्तुस्त्वचिन्त्या किल शक्तिरस्ति, तकि स लोभीति निगद्यते हो ॥५१॥ टीका–उक्तपक्षाभ्युपगमे दोपमाह-अशक्तिरित्यादिना एवं च सति । अस्य'-कर्तुः, 'अशक्तिरपि'-असामर्थ्यमपि, 'निवेदिता'-प्रकटीकृता भवति, यत्'-यस्मात् कारणात् , 'भिन्नभिन्नार्थकमेलवीर्यः'-पृथक्पृथग्जीवपदार्थमेलनशक्तियुतः, 'नो'-नेवाऽस्ति, वादी प्राह-कतुरित्यादि कर्तुः'-कारकस्य तु, 'किलेति'-निश्चये, 'अचिन्त्या'-अचिंतनीया, 'शक्तिः '-सामर्थ्य, ' अस्ति'-विद्यत इति, अस्य परिहारमाह-तदित्यादिना 'तत् '-तर्हि, 'हो'-इति संबोधने आश्चर्ये वा, किं सः'-कर्ता, ' लोभी '-लोभयुक्तोऽस्ति, ' इति '-एतत् , ' निगद्यते '-कथ्यते ।। ५१ ।। १. स्वचामिछने स्थाने । २. क्रियावसरे । ३. अबसरे याउप्राप्तिस्तद् भयात् । ४. पृथकपृथगजीवपदार्थमेलनबलः ।
KI॥४७॥