________________
वाच्या अमी किं जगदीश्वरोऽयं, जीवान्सतः किं प्रकटीकरोति ।
किं वा नवानेव करोति कर्ता, चेदादिपक्षः शृणु तर्हि वार्ताम् ।। ४९ ।। टीका-इदानीं यवनाचार्यादिमतमुक्तविषये प्रदर्य तत्परिजिहीर्पयाह-इत्थं चेत्यादि इत्थं चे' ति-एवं च सतीत्यर्थः, 'ये केचन'-केऽपि यवनाचार्यादयः, 'सङ्गिरन्ते'-कथयन्ति, प्रतिजानते यावत् , यत् 'कर्ता'-कारकः, 'जीवगणान् '-जीवसमूहान् , ' स्वतः'-स्वस्मात् स्वकीयादात्मनः सकाशादितिभावः, 'प्रसृज्य'-कृत्वा, 'तेषां 'जीवगणानां, 'संसारिभावं'-संसारित्वं, 'प्रणिदाय '-दत्त्वा, 'पुनः'-पश्चात् , 'तान्'-जीवगणान् , 'महालये -प्रलयकाले, 'संहरते'-विनाशयति, परिहारमाह-वाच्या इत्यादिना 'अमी'-पूर्वोक्ता वादिनः, 'वाच्या'-कथयितव्याः, प्रष्टव्या इतिभावः, 'कि 'मिति प्रकारद्योतने, 'अयं जगदीश्वरः'-जगत्स्वामी, 'कर्ता'-कारका, 'किम् ' 'सतः'-विद्यमानान् , 'जीवान्'जंतून् , 'प्रकटीकरोति'-प्रादुर्भावयति, 'किं वा'- अथवा, 'नवानेव'-नवीनानेव, असत एवेतिभावः, 'करोति'विदधाति, पूर्वपक्षे दोपमाह-चेदित्यादिना 'चेत् '-यदि, 'आदिपक्षः'-प्रथमपक्षोऽस्ति, तर्हि '-तथा, 'वार्ताम् '| वृत्तान्तं, 'शृणु' ॥ ४८-४९ ॥
१. ये इत्थं वदन्ति ते वाच्याः पृष्टव्या इत्यर्थः । २. विद्यमानान् । ३. जीवान् ।