________________
जैनतस्वसार ॥ ४६॥
अष्टमोऽधिकार
व्यवस्था, 'अस्ति'-विद्यते, ' तर्हि '-तदा, 'मध्यस्थजन्तोरपि'-सेवकासेवकभिन्न स्वरूपप्राणिनोऽपि, 'सा' 'काचित्'-| काऽपि, गतिः 'अस्तु'-भवतु ॥ ४६ ॥
मूलम्-अस्यापि काचिन्नियता गतिः स्या-दस्यागतेस्तहि च कोऽस्ति कर्ता।
तीति वाच्यं सुखदुःखमुख्यं, यथा कृतं कर्म तथैव लभ्यम् ॥४७॥ टीका-उक्तविषय एव पुनराह-अस्यापीत्यादि 'अस्यापी ति मध्यस्थतोरपीत्यर्थः, 'काचित् '-कापि, 'नियता'निश्चिता, 'गतिः'-व्यवस्था, ' स्यात् '-अस्ति, तर्हि'-तदा, 'अस्याः'-पूर्वोक्ताया गते, 'कर्ता'-कारका, 'कोऽस्ति'विद्यते, 'च' शब्दश्चरणपूत्तौं, ' तर्हि -तदा, 'इति'-एतद् वक्ष्यमाणम् , 'वाच्यम्'-कथयितव्यम् , यत् ' यथा'येन प्रकारेण, 'कृतं'-विहितम् , 'कर्म'-कार्यम् , भवति, तथैव '-तेनैव प्रकारेण, 'सुखदुःखमुख्यम् '-सुखदुःखादि, 'लभ्यं' प्राप्यम् भवति ॥ ९७ ॥
स्वत ईश्वरेण जीवानां सृष्टिसंहारानुपपत्ति श्लोकचतुर्दशेनाहमूलम्-इत्थं च ये केचन सङ्गिरन्ते, कर्ता स्वतो जीवगणान्प्रसृज्य !
संसारिभावं प्रणिदाय तेषां, महालये संहरतें पुनस्तान् ॥ ४८॥ १. यवनाचार्यादयः । २. प्रतिजानते प्रतिज्ञा कुर्वन्तीति यावत् । ३. स्वकीयादात्मनः सकाशात् । ४. कृत्वा । ५. दत्त्वा ।
॥४६॥