________________
*
*
%%*
मूलम्-द्वेषी च रागी भवतां स कर्ता, य ईदृशीमाचरति प्रतिक्रियाम् ।
नामैवमस्त्वस्तु परं य एनं, निन्देन्नं वन्देत गतिस्तु कास्य ॥४५॥ टीका-उक्तपक्षं परिहर्तुमाह-द्वैषी चेत्यादि एवं च सति 'स:'-पूर्वोक्त:,' भवतां'-भवत्संबंधी, भवदभिमत इतिहै. भावः, 'कर्ता'-जगत्कारकः, विष्णुरितिभावः, 'च' शब्दौ समुच्चये, 'द्वेषी'-द्वेषयुक्तः, 'रागी'-रागयुक्तश्च प्राप्नोति,
'यः''ईदृशीम् '-एवंभृतां, 'प्रतिक्रियाम् '-प्रतीकारं, 'आचरति '-करोति, वादी प्राह-नामेत्यादिना 'नामे "तिसंभाव्ये, एवमस्त्विति, रागद्वेषयुक्तः स्यात् का नो हानिरित्यर्थः, अस्य प्रतिक्षेपमाह-अस्तीत्यादिना 'अस्त्विति'-तवोक्तकथनं स्यादित्यर्थः, 'परम् '-परन्तु, 'यः'-जंतुः, 'एनं' कर्तारम् , 'न निदेव'-न गर्हयेत् , न च 'वंदे-नमस्कुर्यात् , डमरुकमणिन्यायेन नेति रहस्योभयप्रयोगः 'अस्य '-पूर्वोक्तप्राणिनस्तु, 'का गतिः ?'-कीदृशी व्यवस्था भवेत?॥४५॥
मूलम्-लोके त्रिधा स्याद्गतिरेकवस्तुनो-यत्सेवकासेवकमध्यमात्मिकाः।
- आद्योईयोश्चेद्गतिरस्ति तर्हि, मध्यस्थजन्तोरपि साऽस्तु काचित् ॥४६॥ टीका-अत्रैव पुष्टिमाह-लोक इत्यादिना 'लोके '-संसारे, 'एकवस्तुनः'-एकपदार्थस्य, 'त्रिधा'-त्रिप्रकारा, 'गतिः'-दशा, ' स्यात् '-भवति, ' यत् सेवकासेवकमध्यमात्मिकाः' इति-सेवकात्मिका मध्यमात्मिका च सेवकस्वरूपा | मध्यमस्वरूपा चेतिभावः, 'चेत् '-यदि, 'आद्योः'-प्रथमयोः, 'द्वयोः'-उभयोः, सेवकासेवकयो योरित्यर्थः, 'गतिः'
१. मध्यस्थनकारस्योभयत्रसम्बन्धो डमरुकमणिवत् । २. सेवकासेवकयोद्धयोः । ३. उदासरूपस्य गतिः ।
ARTHAKHABAR
%84
%94