SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार अष्टमोऽधिकार ॥४५॥ यदि त्वमेवं ब्रूया इत्यर्थः, यत् 'कर्तुः'-कारकस्य, विष्णोरित्यर्थः, 'शक्तेः'-सामर्थ्यात् , 'सा'-माया, चरितुम् ‘समर्थाशक्ताऽस्ति, 'तदा'-तर्हि, 'सुखदुःखदः '-सौख्यक्लेशयोर्दाता कतैव विष्णुदेवः, 'अस्तु'-भवतु, अत्र दोषमाह-किं कर्तुरित्यादिना एवं च सति ' एतैः '-जन्तुभिः, ' कर्तुः'-विष्णोः, 'किमपराद्धमस्ति'-कोऽपराधः कृतोऽस्ति, 'चेत् - यत् , 'ईदृशीम् '-इत्थं भूतां, सुखदुःखदामितिभावः, 'तां'-मायां, ‘जीवं प्रति '-जीवमुद्दिश्य, 'ईते'-प्रेरयति, इत्थं च सति दोषमाह-निरागसामित्यादिना ' यः'-विष्णुः, 'निरागस '-निरपराधानां, 'प्राणभृतां'-प्राणिनास् , ' ईगूदुःखादिकर्ता'-ईदृशः-उक्तप्रकारकस्य दुःखादेः कर्ताऽस्ति, 'ही'ति निश्चये, 'सः' 'कथं '-केन प्रकारेण, 'कर्ता'जगन्निर्माता भवितुं शक्नोति ॥ ४२-४३ ॥ मूलम्-ध्यायन्ति ये नेशमिमेऽस्य सागसा-स्तेषामसौ दुःखकरः प्रथेत्यहो। ये त्वीशमेनं प्रति सेवमाना,-स्तेषामयं सातततिं विधत्ते ॥४४॥ टीका-अत्र वादी प्राह-ध्यायंतीत्यादि ये ' इमे'-जन्तवः, ' ईशं'-विष्णुं, 'न ध्यायन्ति'-न चिंतयन्ति, 'अस्स'स्वस्य, ते 'सागसाः'-सापराधाः सन्ति, 'तेषां'-जन्तूनाम् , 'असौ'-विष्णुः, 'दुःखकरः'-दुःखकर्ता दुःखप्रदर्शितभावो भवति, 'अहो' इति-सम्बोधने, 'प्रथा'-रीतिरस्ति, 'ये'-जन्तवस्तु, 'एनम् -पूर्वोक्तम्, 'ईशं'-विष्णु, प्रति, 'सेवमानाः'-सेवनकर्तारः सन्ति, 'तेषाम्'-जंतूनाम् , 'अयं'-विष्णुः, 'साततति'-सौख्यसमूह, 'विधत्ते'- करोति ।। ४४॥ १. कर्तुः । २. सापराधाः । ३. सेवकानाम् । ४. प्रसिद्धिः । ॥४५॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy