SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ***** पूर्वोक्तां मायां, 'नुदेत '-प्रेरयेत् , 'तु' शब्दश्चरणपूर्ती, 'तदा'-तहिं, ' तदैकरूप्यात् '-तस्या मायाया एकरूपत्वेन हेतुना, त्रिलोकी '-त्रिभुवनम् , 'एकरूपा'-समाना, सुखमयी दुःखमयी वेत्यर्थः, 'अस्तु'-भवतु, 'भिन्नरूपा'पृथग्रूपा, न अस्तु, द्वितीयपक्षे दोषमाह-यदीत्यादिना यदि 'ता'-मायाम् , पृथक्पृथग्मेदेन 'जीवान् '-जंतून प्रति, 'ई'-प्रेरयति, 'तदानीं'- तदा, 'नु' इति वितर्के, 'अस्याः '-मायायाः, 'आनन्त्यम् '-अनंतत्वम्, 'भवेत् 'स्यात् , उक्तपक्षाभ्युपगमे मायाया अनंतत्वं प्राप्नोतीतिभावः, येन 'इयं'-मायापि, 'अनेकरूपा'-विभिन्न स्वरूपा, 'च'-पुनः, 'जीवाः'-जन्तवोऽपि, 'भिन्नरूपाः'-अनेकस्वरूपा भवेयुः ॥ ४०-४१॥ मूलम्-नामैवमस्त्वत्र तथापि माया, जडा सती किं चरितुं क्षमा स्यात् । कर्तश्च शक्तेरथ सा समर्था, तदैव कत्ता सुखदुःखदोऽस्तु ॥४२॥ किं कर्तुंरेतैरपराद्धमस्ति, चेदीदृशं तां प्रति जीवमीर्ते । निरागसां प्राणभृतां य ई-दुःखादि कर्ता स कथं हि कर्ता? ॥४३॥ टीका-अत्र पुनर्दषणमाह-नामैवमित्यादिना 'अत्र'-उक्तविषये, 'नामे' ति-संभाव्ये, 'एवमस्तु'-उक्तविषयः स्यात् पृथक्पृथग्जीवान् प्रति विष्णुर्मायां प्रेरयेत भवेदित्यर्थः, 'तथापि' 'जडा'-अचेतना, 'सती'-माया, 'किं चरितुं'-किं कर्तुम् ? 'क्षमा'-शक्ता, 'स्यात् '-भवेत् , अत्र वादिहृदयस्था शंकां परिहतुमाह-कर्तुश्चेत्यादि 'अथ चेति' १. कर्तुम् । २. मायाम् । ३. निरपराधानाम् । -964-%A4%ASARAHASRANA ASHA
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy