________________
जैन
तत्त्वसार
४४ ॥
तरेणैवेत्यर्थः, विष्णुम् ‘संश्रयितुम् ' - आश्रयितुम्, 'नो' - नैव, 'शक्ता' - समर्थाऽस्ति, तर्हि विष्णुर्मायां श्रयेदित्यपि परिहर्तुमाहविष्णुरित्यादि ' विष्णुस्तु ' ' परब्रह्मतुल्यः ' - परब्रह्मणा समानः, परब्रह्माधिकारोक्तविशेषणविशिष्टत्वाद् ब्रह्मतुल्य इतिभावोऽस्ति सः, ' ही 'ति निश्वये, ' जानन् ' - मायाश्रयणदुर्विपाकं विदन्नपीत्यर्थः, 'स्वयं ' - स्वत एव, अन्यप्रेरणमंतरेणैवेत्यर्थः, 'मायां मा श्रयेत् ' - मायाधीनो न भवति, अत्र हेतुमाह-यदित्यादिना ' यत् ' - यस्मात् कारणात्, ' अजडः 'चेतनावान्, 'पारतन्त्र्यात् ' - पराधीनत्वात्, परवशः सन्नेवेति, ' जडं श्रयेत् ' - अचेतनस्याश्रयं करोति ॥ ३९ ॥
मूलम् - अथैष विष्णुर्युगपन्नुदेत्तां, पृथक्पृथग्वा प्रतिजीवमी । आधे येदीमां तु नुदेत्रिलोकी, तदैकरूपास्तु न भिन्नरूपा तदैकरूप्याद्यदि तीं पृथक्पृथग्, जीवान्प्रतीर्त्ते न भवेत्तदानीम् । आनन्त्यमस्या इयमप्यनेक-रूपा च जीवा अपि भिन्नरूपाः
नु
|| 80 ||
॥ ४१ ॥
टीका - माया प्रेरणेऽपि दोषमाह - अथैष इत्यादिना 'अथे 'ति प्रश्ने, ' एषः '- पूर्वोक्तो विष्णुः, 'तां' - मायां, 'युगपत् ’-एकस्मिन्नेव समये, 'नुदेत् ' - प्रेरयेत्, 'वा' - अथवा, ' प्रतिजीवं '- जीवं जीवं प्रति, 'पृथक्पृथक्' - विभेदेन, 'ई'प्रेरयति, प्रथमे पक्षे दोषमाह - आद्य इत्यादिना ' आद्ये ' - प्रथमे पक्षे, प्रथमपक्षाभ्युपगमे सतीतिभावः, यदि ' इमां '
१. मायां । २. यदि सुखमयी तदा सुखमय्येव दुःखमयी दुःखमथ्येव न च भिन्नरूपा । ३. तस्या मायाया एकरूप्यं एकस्वभावता तस्मात् । ४. मायां । ५. जीवानामनेकत्वात् ।
अष्टमोऽधिकारः
॥ ४४ ॥