________________
नवाङ्गी
० ०
भीज्ञाताधर्मकथाङ्गे
॥ १४६ ॥
हट्टव सट्टे 'ति - आर्त्तस्य- ध्यानविशेषस्य यो, 'दुहट्ट 'ति-दुर्घटः दुःस्थगो दुर्निरोधो वशः- पारतन्त्र्यं तेन ऋत: - पीडितः आर्त्तदुर्घटवशार्त्तः; किमुक्तं भवति ? - असमाधिप्राप्तः, 'ववरोबिज्जसि 'त्ति - व्यपरोपयिष्यसि अपेतो भविष्यसीत्यर्थः 'चालि तर ति इह चलनमन्यथाभावत्वं कथं ? ' खोभित्तए 'ति क्षोभयितुं संशयोत्पादनतः तथा, 'विपरिणामित्त 'त्तिविपरिणामयितुं विपरीताध्यवसायोत्पादनत इति, 'संते ' इत्यादौ, यावत्करणात्, ' तंते परितंते' इति द्रष्टव्यं तत्र श्रान्तः शान्तो वा मनसा तान्तः कायेन खेदवान् परितान्तः सर्वतः खिन्नः निर्विण्ण- तस्मादुपसर्गकरणादुपरतः, 'लद्धेत्यादि, तत्र लब्धा - उपार्जनतः प्राप्ता-तत्प्राप्तेरभिसमन्वागता - सम्यगासेवनतः, 'आइक्वइ' इत्यादि, आख्याति सामान्येन भाषते विशेषतः, एतदेव द्वयं क्रमेण पर्यायशब्दाभ्यामुच्यते- प्रज्ञापयति, प्ररूपयति; ' देवेण वा दाणवे 'त्यादाविदं द्रष्टव्यमपरं 'किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण व 'त्ति-तत्र देवो वैमानिको ज्योतिष्को वा, दानवो भवनपतिः, शेषा व्यन्तरभेदाः, 'नो सद्दहामि' इत्यादि, न श्रघे - प्रत्ययं न करोमि, 'नो पत्तियामि' तत्र प्रीतिकं प्रीतिं न करोमि, न रोचयामि - अस्माकमप्येवंभूता गुणप्राप्तिर्भवत्वेवं न रुचिविषयीकरोमीति; ' पियधम्मे 'त्ति धर्मप्रियो, दृढधर्मा आद्यपि धर्मादविचलः, यावत्करणात् ऋद्ध्यादिपदानि दृश्यानि तत्र ' इड्डि 'त्ति-गुणर्द्धिः, द्युतिः- आन्तरं तेजः, यशःख्यातिः, बलं- शारीरं वीर्य-जीवप्रभवं, पुरुषकारः - अभिमानविशेषः, पराक्रमः स एव निष्पादितस्वविषयः, लब्धादिपदानि तथैव, 'उस्सुकं वियर'ति-शुल्काभावमनुजानातीत्यर्थः, 'गामागरे 'त्यादाविदं द्रष्टव्यं - 'नगरखेड कब्बड मडंबदोणमुहपट्टणनिगमसन्निवेसाई' इति तत्र ग्रामो-जनपदाध्यासितः, आकरो-हिरण्याद्युत्पत्तिस्थानं, नगरं - करविरहितं खेटं-धूली
ঃउ ত6
८- श्री.
मल्ली
ज्ञाताध्य० आ
ध्यानादिपदार्थ - वर्णनम् ।
॥ १४६ ॥