________________
लाजा
आा-प्रशान्ता प्रसन्नरूपा, दुर्गा-कोट्टक्रिया-सैव महिषारूढरूपा, पूजाभ्युपगमपूर्वकाणि प्रार्थनानि उपयाचितान्युच्यन्ते, उपयाचितवन्तो-विदधतस्तिष्ठन्ति स्मेति, अन्नकवर्जानामियमितिकर्तव्यतोक्ता, अधुनाईनकस्य तामाह-'तएण' मित्यादि, 'अपस्थियपत्थिय 'त्ति अप्रार्थितं-यत्केनापि न प्रार्थ्यते तत्प्रार्थयति यः स तथा, तदामन्त्रणं पाठान्तरेणअप्रस्थितः सन् यः प्रस्थित इव मुमूर्षुरित्यर्थः, स तथोच्यते, तस्यामन्त्रणं हे अप्रस्थितप्रस्थित !; यावत्करणात 'दुरंतपंतल. क्खणे'ति-दुरन्तानि-दुष्टपर्यन्तानि, प्रान्तानि-अपसदानि लक्षणानि यस्य स तथा तस्यामन्त्रणं 'हीणपुण्णचाउद्दसी' इति हीना-असममा पुण्या-पवित्रा चतुर्दशी तिथिर्यस्य जन्मनि स तथा, चतुर्दशीजातो हि किल भाग्यवान् भवतीति, आक्रोशे तदभावो दर्शित इति, 'सिरिहिरिधीकित्तिवज्जिय'त्ति-प्रतीतं, 'तवसीलव्वए 'त्यादि, तत्र शीलव्रतानि-अणुव्रतानि, गुणा:-गुणव्रतानि, विरमणानि-रागादिविरतिप्रकाराः प्रत्याख्यानानि-नमस्कारसहितादीनि, पौषधोपवास:-अष्टम्यादिषु | पर्वदिनेषूवसनं आहारशरीरसत्काराब्रह्मव्यापारपरिवर्जनमित्यर्थः, एतेषां द्वन्द्वः, 'चालित्तए 'ति-भङ्गकान्तरगृहीतान् भङ्गकान्तरेण कत्तुं क्षोभयितुं-एतान्येवं परिपालयाम्युतोज्झामीति क्षोभविषयान् कत्तु खण्डयितुं-देशतः भक्तुं सर्वतः उज्झितुंसर्वस्या देशविरतेस्त्यागेन परित्यक्तुं-सम्यक्त्वस्यापि त्यागत इति, 'दोहिं अंगुलीहिं 'ति-अङ्गुष्ठकतर्जनीभ्यां, अथवातर्जनीमध्यमाभ्यामिति; 'सत्तट्टतलप्पमाणमेत्तायं 'ति-तलो-हस्ततलः तालाभिधानो वाऽतिदीर्घवृक्षविशेषः स एवं प्रमाणं-मानं तलप्रमाणं सप्ताष्टौ वा सप्ताष्टानि तलप्रमाणानि परिमाणं येषां ते सप्ताष्टतलप्रमाणमात्रास्तान् गगनभागान् यावदिति गम्यते, 'उड्डे वेहास'ति-ऊर्दू विहायसि-गगने, 'उव्विहामित्ति-नयामि, 'जेणं तुमंति-येन त्वं, 'अदृदु