________________
१० पृ०
श्रीज्ञाता
धर्मकथा
॥ १४५ ।।
गोधाः उन्दुश नकुलाः सरटाच तैर्विरचिता विचित्रा - विविधरूपवती वैकेक्षण - उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्र तया वा मालिका - माला यस्य स तथा तं भोगः-फणः स क्रूरो- रौद्रो ययोस्तौ तथा तौ च कृष्णसप च तौ घमघमायमानौ 'च तावेव लम्बमाने कर्णपूरे- कर्णाभरणविशेषौ यस्य स तथा तं, मार्जारशृगालौ लगितौ नियोजितौ स्कन्धयोर्येन स तथा तं दी - दीप्तस्वरं यथा भवत्येवं, ' घुघुयंत 'ति घूत्कारशब्दं कुर्वाणो यो घूकः- कौशिकः स कृतो विहितो, 'कुंतल' तिशेखरकः शिरसि येन स तथा तं, घण्टानां श्वणं शब्दस्तेन भीमो यः स तथा स चासौ भयङ्करथेति तं कातरजनानां हृदयं स्फोटयति यः स तथा तं दीप्तमट्टट्टहासं घण्टारवेण भीमादिविशेषणविशिष्टं विनिर्मुश्चन्तं वसारुधिरपूयमांसमलैर्मलिना, ' पोचड 'त्ति-विलीना च तनुः शरीरं यस्य स तथा तं, उत्रासनकं विशालवक्षसं च प्रतीते, 'पेच्छंत'त्ति-प्रेक्ष्यमाणादृश्यमाना अभिन्ना - अखण्डा नखाश्व-नखरा रोम च मुखं च नयने च कर्णौ च यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा - कर्बुरा - कृत्तिश्च - चर्मेति सा तथा सैव निवसनं परिधानं यस्य स तथा तं सरसं रुधिरप्रधानं यद्गजचर्म तद्विततंविस्तारितं यत्र तत्तथा तदेवंविधं, 'ऊसवियं 'ति उच्छृतं ऊर्द्धकृतं बाहुयुगलं येन स तथा तं ताभिश्च तथाविधाभिः खरपरुषा- अतिकर्कशाः अस्निग्धा: - स्नेहविहीना दीप्ता - ज्वलन्त्य इवोपतापहेतुत्वात् अनिष्टा - अभिलाषाविषयभूताः अशुमाः स्वरूपेण अप्रिया: अप्रीतिकरत्वेन अकान्ताथ विश्वरत्वेन या वाचस्ताभिः त्रस्तान् कुर्वाणं- त्रस्तयन्तं तर्जयन्तं च पश्यन्ति स्म, पुनस्तत्तालपिशाचरूपं, ' एजमाणं 'ति नावं प्रत्यागच्छत् पश्यन्ति, ' समतुरंगेमाणे 'ति - आश्लिष्यन्तः, स्कन्दःकार्त्तिकेयः, रुद्रः - प्रतीतः शिवो- महादेवः, वैश्रमणो यक्षनायकः, नागो-भवन पतिविशेषः, भूतयक्षाः - व्यन्तरभेदाः ॥ १४५ ॥
८-श्री
मल्ली
ज्ञाताध्य०
कुंतलादिपदार्थ
स्वरूपम् ॥