SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ RSS4344% 9CCI जमलजुयलजीह'ति-निलालितं-विवृतमुखानिःसारितं यमलं-समं युगलं-द्वयं जिलयोन तत्तथा, 'आऊसियवयण. गंडदेसं'ति-आऊसियत्ति-प्रविष्टौ वदने गण्डदेशी-कपोलभागौ यस्य तत्तथा, 'चीणचिपिडनासियंति-चीना-हस्वा चिपिटा च-निम्ना नासिका यस्य तत्तथा, 'विगयभुग्गभुमयंति-विकृते-विकारवत्यौ, भुग्ने-मग्ने इत्यर्थः; पाठान्तरेण'भुग्गभग्गे'-अतीव चक्रे भ्रवौ यस्य तत्तथा; 'खजोयगदित्तचक्खुरागं'ति-खद्योतका-ज्योतिरिङ्गणाः, तद्वदीप्तश्चथुरागो-लोचनरक्तत्वं यस्य तत्तथा, उपासनक-भयंकर, विशालवक्षो-विस्तीर्णोर:स्थलं, विशालकुक्षि-विस्तीर्णोदरदेशं, एवं प्रलम्बकुक्षि 'पहसियपयलियपयडियगत्तं'ति-प्रहसितानि-हसितुमारब्धानि, प्रचलितानि च स्वरूपात् प्रवलिकानि वाप्रजातवलीकानि-प्रपतितानि च-प्रकर्षेण श्लथीभूतानि गात्राणि यस्य तत्तथा; वाचनान्तरे-'विगयभुग्गभुमयपहसियपपलियपयडियफुलिंगखज्जोयदित्तचक्खुरागं'ति पाठः, तत्र विकृते भग्ने भ्रुवौ प्रहसिते च प्रचलिते प्रपतिते यस्य स्फुलिङ्गवत् खद्योतकवच्च दीप्तश्चक्षुरागश्च यस्य तत्तथा; 'पणचमाण मित्यादि, विशेषणपश्चकं प्रतीतं, 'नीलुप्पले त्यादौ, | गवलं-महिषशृङ्गं अतसी-मालवकदेशप्रसिद्धो धान्यविशेषः, 'खुरहारंति-क्षुरस्येव धारा यस्य स तथा, तमसिं-खड्ग, क्षुरो ह्यतितीक्ष्णधारो भवत्यन्यथा केशानाममुण्डनादिति क्षुरेणोपमा खड्गधारायाः कृतेति, अभिमुखमापतत् पश्यन्ति सर्वेऽपि सांया. त्रिकाः, तत्राहकवर्जा यत् कुर्वन्ति तदर्शयितुमुक्तमेव पिशाचस्वरूपं सविशेषं तेषां तद्दर्शनं चानुवदन्निदमाह-'तएण'मित्यादि, में ततस्ते अहमकवर्जाः सांयात्रिकाः पिशाचरूपं वक्ष्यमाणविशेषणं पश्यन्ति, दृष्ट्वा च बहूनामिन्द्रादीनां बहून्युपयाचितशता-न्यु| पयाचितवन्तस्तिष्ठन्तीति समुदायार्थः, अथवा-'तए णति 'अरहन्नगवजा' इत्यादि, गमान्तरं-'आगासदेवयाओनचंति' SAFERIC A
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy