SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ मेयं यत्सेसिकापल्यादिना मीयते, परिच्छेद्यं यद् गुणतः परिच्छेद्यते-परीक्ष्यते वस्त्रमण्यादि, 'समियस्स य'त्ति कणिकायाथ, 'ओसहाणं' ति - त्रिकटुकादीनां, 'भेसखाण य'त्ति - पथ्यानामाहारविशेषाणां, अथवा - ओषधानां - एकद्रव्यरूपाणां, भेषजानां - द्रव्यसंयोगरूपाणां, आवरणानां - अङ्गरक्षकादीनां बोधिस्थप्रक्षराणां च; 'अज्बे'त्यादि, आर्य !, हे पितामह !, तात !हे पितः !, हे भ्रातः !, मातुल !, हे भागिनेय !, भगवता समुद्रेण अभिरक्ष्यमाणा यूयं जीवत, भद्रं च 'मे'त्तिभवतां भवत्विति गम्यते, पुनरपि लब्धार्थान् कृतकार्यान् अनघान् समग्रान्, अनघत्वं - निर्देषणतया, समग्रत्वम् - अहीनधनपरिवारतया, निजकं गृहं 'हव्वं' ति - शीघ्रमागतान् पश्याम इतिकृत्वा - इत्यभिधाय, 'सोमाहि' ति-निर्विकारत्वात्, 'निद्धाहिं'ति- सस्नेहत्वात्, 'दीहा हिं'ति दूरं यावदवलोकनात्, 'सप्पिवासाहिं' ति - सपिपासाभिः पुनर्दर्शनाकाङ्क्षावतीभिर्दर्शनातृप्ताभिर्वा 'पप्याहिं' ति - प्रप्लुताभिः अनुजलार्द्राभिः, 'समाणिएसु' त्ति - समापितेषु दत्तेषु नावीति गम्यते, सरसरक्तचन्दस्य दर्दरेण - चपेटाप्रकारेण पश्चाङ्गुलितलेषु हस्तकेष्वित्यर्थः, 'अणुक्खित्तसी'ति - अनूत्क्षिप्ते - पश्चादुत्पाटिते धूपे पूजितेषु समुद्रवासेषु नौसांयात्रिकप्रक्रियया समुद्राधिपदेवपादेषु वा, 'संसारियासु वलयवाहासु'ति - स्थानान्तरादुचितस्थाननिवेशितेषु दीर्घकाष्ठलक्षणबाहुषु आवल्लकेष्विति सम्भाव्यते, तथा उच्छ्रितेषु ऊर्द्धकृतेषु, सितेषु ध्वजाग्रेषुपताकाग्रेषु पटुभिः पुरुषैः पटु वा यथा भवतीत्येवं प्रवादितेषु तूर्येषु जयिकेषु जयावहेषु, सर्वशकुनेषु - वायसादिषु गृहीतेषु राजवरशासनेषु - आज्ञासु पट्टकेषु वा प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव तं प्रदेशमिति गम्यते; 'तओ पुस्समाणवो चकमुयाहुति - ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्म इत्यर्थः तदेवाह सर्वेषामेव ' भे' - भवतामर्थसिद्धिर्भवतु, उप ৬৭৬ মেলান তলে তলোঃ ভয়ে ভে
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy