SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ वृन्तहस्ता उत्तररुचकवास्तव्याचामरहस्ता जिनस्य उत्तरेण, एवं चतस्रो रुवकस्य विदिग्वास्तव्या आगत्य दीपिका हस्ता जनस्य चतसृषु विदिक्षु तथैव तस्थुः, मध्यमरुचकत्रास्तभ्या रुवकद्वीपस्याभ्यन्तरार्द्धवासिन्य इत्यर्थः चतस्रस्तास्तथैवागत्य जिनस्य चतुरङ्गुलवर्जनाभिनालच्छेदनं च वित्ररखननं च नाभिनालनिधानं च विवरस्य रत्नपूरणं च तदुपरि हरितालिकापीठबन्धं च पश्चिमावर्जदिकत्रये कदलीगृहत्रयं च तन्मध्येषु चतुःशालभवनत्रयं च तन्मध्यदेशे सिंहासनत्रयं च दक्षिणे सिंहासने जिनजनन्योरुपवेशनं च शतपाका दितैलाभ्यङ्गनं च गन्धद्रव्योद्वर्त्तनं च पुष्पोदकं च पूर्वत्र पुष्पोदकगन्धोदकशुद्धोदकमखनं च सर्वालङ्कारविभूषणं च उत्तरत्र गोशीर्षचन्दनकाष्ठैर्वयज्वलनं चाग्निहोमं च भूतिकर्म च रक्षापोट्टलिकां च मणिमपाषाणद्वयस्य जिन कर्णाभ्यर्णे प्रताडनं च भवतु भगवान् पर्वतायुरिति भणनं च पुनः समातृकजिनस्य स्वभवननयनं च शय्याशायनं च चक्रुः कृत्वा च गायन्त्यस्तस्थुरिति । सौधर्मकल्पे च शक्रस्य सहसा आसनं प्रचकम्पे अवधि चासौ प्रयुयुजे तीर्थंकरजन्म चालुलोके ससंभ्रमं च सिंहासनादुत्तस्थौ पादुके च मुमोच उत्तरासङ्गं च चकार, सप्ताष्टानि च पदानि जिनाभिमुखमुपजगाम भक्तिभरनिर्भरो यथाविधि जिनं च ननाम, पुनः सिंहासनमुपविवेश हरिणे. गमेषीदेवं पदात्यनीकाधिपतिं शब्दयांचकारः तं चादिदेश, यथा सुधर्मायां सभायां योजनपरिमण्डलां सुघोषाभिधानां घण्टां त्रिस्ताडन्नुद्धोषणां विधेहि, यथा भो भो देवा !, गच्छति शक्रो जम्बूद्वीपं तीर्थकरजन्ममहिमानं कर्तुमतो यूयं सर्वसमृद्ध्या शीघ्रं शक्रस्यान्तिके प्रादुर्भवतेति स तु तथैव चकार, तस्यां च घण्टायां ताडितायामन्यान्येकोनद्वात्रिंशद्घण्टालक्षाणि समकमेव रणरणारत्रं चक्रुः; उपरते च घण्टारवे घोषणामुपश्रुत्य यथादिष्टं देवाः सपदि AUঃ
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy