________________
नवाङ्गी
० पृ०
भीज्ञाताधर्मकथाङ्गे
॥ १३३ ॥
किं पर्यवसानं जन्म वक्तव्यमित्याह - यावन्नन्दीश्वरे 'महिम 'त्ति - अतिदिष्टग्रन्थथार्थत एवं द्रष्टव्यो; यथा अष्टौ दिक्कुमारीमहत्तरिका:, भोगङ्कशप्रभृतयस्तत्समय मुपजात सिंहासनप्रकम्पाः प्रयुक्तावधिज्ञानाः समवसितै कोनविंशतितमतीर्थ नाथ जननाः, ससम्भ्रममनुष्ठितसमवायाः समस्तजिननाय कजन्मसु महामहिमविधानमस्माकं जीतमिति विहितनिश्चयाः, स्वकीय स्वकीयाभियोगिक देवविहितदिव्यविमानारूढाः सामानिकादिपरिकरवृताः सर्वर्ध्या मल्लिजिन जन्मनगरीमागम्य जिनजन्म भवनं यानविमानैस्त्रिः प्रदक्षिणीकृत्य उत्तरपूर्वस्यां दिशि यानविमानानि चतुर्भिरङ्गुलैर्भुवमप्राप्तानि व्यवस्थाप्य जिनसमीपं जिनजननीसमीपं च गत्वा त्रिः प्रदक्षिणीकृत्य कृतप्राञ्जलिपुटाः; इदमवादिषुः- नमोऽस्तु ते रत्नकुक्षिधारिके !, नमोऽस्तु ते जगत्प्रदीपदायिके !, वयमधोलोकवास्तव्या दिकुमार्यो जिनस्य जन्ममहिमानं विधास्यामः, अतो युष्माभिर्न भेतव्यमिति अभिधाय च विहितसंवर्त्तवाताः जिनजन्मभवनस्य समन्ताद्योजन परिमण्डलक्षेत्रस्य तृणपत्रकच वरादेरशुचिवस्तुनोऽपनयनेन विहितशुध्योजिनजनन्योरदूरतो जिनस्यासाधारण म गणित गुणगण मागायन्त्यस्तस्थुः, एवमेवोलोकवास्तव्या नन्दनवन कूटनिवासिन्य इत्यर्थः, अष्टौ दिकुमारी महत्तरिकास्तथैवागत्य विरचिताभ्रवईलिकाः आयोजनमानक्षेत्रं गन्धोदकवर्षं पुष्पवर्ष धूपघटीच कृत्वा जिनसमीपमागत्य परिगायन्त्य आसां चक्रुः, तथा पौरस्त्यरुचकवास्तव्या रुचकाभिधानस्य त्रयोदशस्य द्वीपस्य मध्यवर्त्तिनः प्राकाराकारेण मण्डलव्यवस्थितस्योपरि पूर्वदिग्व्यवस्थितेष्वष्टासु कूटेषु कृतनिवासा इत्यर्थः आगत्य तथैवादर्शहस्ता गायन्त्यस्तस्थुः, एवं दक्षिणरुचकवास्तव्या जिनस्य दक्षिणेन भृङ्गारहस्ताः पश्चिमरुचकवास्तव्या जिनस्य पश्चिमेन ताल
१० मागत्य अ ।
||| ex
८- श्री
मल्ली
ज्ञाताध्य० दिक्कुमारि - काकृतमहोत्सवम् ।
॥ १३३ ॥