SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ AUGUAGAROO कृतानि बहुशः सेवनात् यानि तेः, 'अरहंतगाहा'-अर्हदादीनि सप्तपदानि, तत्र प्रवचन-श्रुतज्ञानं, तदुपयोगानन्यत्वाद्वा सङ्घः गुरवो धर्मोपदेशकाः, स्थविराः-जातिश्रुतपर्यायभेदभिन्नास्तत्र जातिस्थविरः षष्टिवर्षः, श्रुतस्थविरः समवायधरः, | पर्यायस्थविरो विंशतिवर्षपर्यायः, बहुश्रुताः परस्परापेक्षया तपस्विनः-अनशनादिविचित्रतपोयुक्ताः सामान्यसाधवो वा, इह | च सप्तमी षष्ट्यर्थे द्रष्टव्याः, ततोऽर्हसिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनां वत्सलतया-वात्सल्येनानुरागयथावस्थितगुणो. कीर्तनानुरूपोपचारलक्षणया तीर्थकरनामकर्म बद्धवानिति सम्बन्धः, 'तेसिं'ति-ये एते जगद्वन्दनीया अहंदादयस्तेषां, अभीक्ष्ण-अनवरतं ज्ञानोपयोगे च सति तद् वध्यते इत्यष्टौ, 'दसण'गाहा, दर्शन-सम्यक्त्वं ९, विनयो ज्ञानादिविषयः, तयोनिरतिचारः संस्तीर्थकरत्वं बद्धवान् १०, आवश्यक-अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्न तस्मिंश्च निरतिचारः सन्निति ११, तथा शीलानि च-उत्तरगुणा ब्रतानि च-मूलगुणास्तेषु पुनर्निरतिचार इति १२, क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च निर्वर्जितवान् १३, तथा तपस्त्यागयोः सतो निर्वर्तितवान् , तत्र तपसा चतुर्थादिना १४, त्यागेन च यतिजनोचितदानेनेति १५, तथा वैयावृत्त्ये सति दशविधे निवर्तितवान् १६, समाधौ च गुर्वादीनां कार्यकरणद्वारेण चित्तस्वास्थ्योत्पादने सति निर्वर्तितवान् १७, द्वितीयगाथायां नव, 'अप्पुव्वगाहा-अपूर्वज्ञानग्रहणे सति निर्वतितवान् १८, श्रुतभक्तियुक्ता प्रवचनप्रभावना श्रुतभक्तिप्रवचनप्रभावना तया च निर्वर्तितवान् श्रुतबहुमानेन १९, यथाशक्ति मार्गदेशनादिकया च प्रवचनप्रभावनयेति भावः २०, तीर्थकरत्वकारणतायामुक्ताया हेतुर्विशतेः सर्वजीवसाधारणतां दर्शयत्राह-एतैः कारणैस्तीर्थकरत्वं अन्योऽपि लभते जीव इति, पाठान्तरे तु 'एसोति एष महाबलो लब्धवानिति 'जाव AFAIRAT-CITERACH
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy