SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ AAEECTI|| ISGARHWASE पक्काः काठिन्यमुपगताः, पर्यायागताः पर्यायगता वा सर्वनिष्पन्नतां गता इत्यर्थः, 'सल्लइपत्तय'त्ति-सल्लकी पक्षविशेषस्तस्या इव पत्रकाणि दलानि कुतोऽपि साधात् सञ्जातानि येषां ते तथेति, गमनिकैवेयं पाठान्तरेण शल्यकिताः शुष्कपत्रतया सञ्जात शलाका पत्रकिताः सञ्जातकुत्सितकाऽल्पपत्राः, 'हरियपव्वकंड 'त्ति हरितानि-हरितालवर्णानि, नीलानि पर्वकाण्डानिनालानि येषां ते तथा, जाताधाप्यभूवन् , 'नवपज्जाणएहिंति नवं प्रत्यग्र, पायनं लोहकारेणातापितं कुट्टितं तीक्ष्णधारीकृतं पुनस्तापितानां जले निबोलनं येषां तानि तथा तेः, 'असिएहिंति दात्रैः, 'अखंडाणं'ति सकलानां, अस्फटितानां असञ्जातराजीकानां, छड २ इत्येवमनुकरणतः सूपादिना स्फुटा:-स्फुटीकृता शोधिता इत्यर्थः, स्पृष्टा वा पाठान्तरेण पूता वा ये ते तथा तेषां, 'मागहए पत्थए'त्ति "दो' असईओ पसई दो पसइओ उ सेइया होइ । चउसेइओ उ कुडओ चउकुडओ पत्थओ नेउ ॥१॥"त्ति अनेन प्रमाणेन मगधदेशव्यवहृतः प्रस्थो मागधप्रस्थः, 'उपलिंपति' घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्ध्र भञ्जन्ति 'लिंपेंति' घटमुखं तत्स्थगितं च छगणादिना पुनर्मसृणीकुर्वन्ति, लाञ्छितं रेखादिना, मुद्रितं मृन्मयमुद्रादानेन तत्कुर्वन्ति, मुरलो मानविशेषः, खलकं धान्यमलनस्थण्डिलं, चतुष्प्रस्थं आढकः, आढकानां षष्ट्या जघन्यः कुम्भः अशीत्या मध्यमः शतेनोत्कृष्ट इति, 'क्षारोष्ट्रिकां'-मस्मपरिष्ठापिका, 'कचवरोज्झिका' अबकरशोधिकां 'समुक्षिका' प्रातहाङ्गणे जलच्छटकदायिका, पाठान्तरेण 'संपुच्छिय'त्ति तत्र सम्प्रोच्छिका पादादिलूषिकां, 'सम्माणिका' गृहस्यान्तर्बहिश्च बहकरिकावाहिका, 'पादोदकदायिका पादशौचदायिकां स्नानोदकदायिकां प्रतीता, बाह्यानि प्रेषणानि कर्माणि सा० १ द्वे अमृती प्रसूतिः दे प्रसूती तु सेतिका भवति । चतुःसेतिकः कुडवश्चतुष्कुडवः प्रस्थको ज्ञेयः ॥१॥ ||| SAHECC
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy