________________
नवाजीप.पू० भीज्ञाताधर्मकथाले
॥११७॥
द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिबुझ्या पर्यनुयोगो विहितः, अक्षयः अव्ययः अवस्थितो भवाननेन नित्यात्मपक्षः पर्यनुयुक्तः, अनेके भूता-अतीता भावाः-सत्ताः परिणामा वा भव्याश्च-माविनो यस्य स तथा, अनेन चातिक्रान्तभावि. सचाप्रश्नेन अनित्यात्मपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे अन्यतरस्य दूषणायेति । तत्राचार्येण स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-एकोऽप्यई, कथं १, द्रव्यार्थतया जीवद्रव्यस्यैकत्वात्, न तु प्रदेशार्थतया, तथा ह्यनेकत्वान्ममेत्यवयवादी (मश्रोत्राद्यवयवा) नामनेकत्वोपलम्भो न बाधकः, तथा कश्चित् स्वभावमाश्रित्यैकत्वसङ्घयावि. शिष्टिस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं-द्वावप्यहं ज्ञानदर्शनार्थतया, न चैकखभावे भेदो न दृश्यते, एको हि देवदत्तादिपुरुषः एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वपितृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् खभावांल्लभत इति, तथा प्रदेशार्थतया असङ्ख्यातान् प्रदेशानाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात् , अव्ययः किया तामपि च व्ययाभावात् , किमुक्तं भवति ?-अवस्थितो नित्यः, असङ्खयेयप्रदेशता हि न कदाचनापि व्यपैति अतो नित्यताभ्युपगमेऽपि न दोषः, उपयोगार्थतया-विविधविषयानुपयोगानाश्रित्य अनेकभूतभावभविकोऽपि, अतीतानागतयोहि कालयोरनेकविषयबोधानामात्मनः कथंचिदभिन्नानामुत्पादाद्विगमाद्वाऽनित्यपक्षो न दोषायेति । पुण्डरीकेण-आदिदेवगणधरेण निर्वाणत उपलक्षितः पर्वतः, तस्य तत्र प्रथमं निर्वृतत्वात् पुण्डरीकपर्वतः-शत्रुञ्जयः।
तते णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य, पंतेहि य, तुच्छेहि य, लूहेहि य, अरसेहि य, विरसेहि य, सीएहि य, उण्हेहि य, कालातिकतेहि य, पमाणाइतेहि य, णिचं पाणभोयणेहि य;
|५-श्रीशिलकाध्यक
शुकस्य थावच्चापुत्रेण सहालापादिकम् ।
RROTOCOGRAPS
CHILOPIECCASS
91