________________
तपःस्वाध्यायेश्वरप्रणिधानानि शौचमूलकं यमनियममीलनाद्दशप्रकारं, धातुरक्तानि वस्त्राणि प्रवराणि परिहितो यः स तथा, त्रिदण्डादीनि सप्त हस्ते गतानि यस्य स तथा तत्र कुण्डिका - कमण्डलूः, कचित्काश्चनिका करोटिका वाऽधीयेते ते च क्रमेण रुद्राक्षकृतमाला मृद्भाजनं चोच्यते, छण्णालकं-त्रिकाष्ठिका अशो-वृक्षपल्लवच्छेदार्थः पवित्रकं ताम्रमयमङ्गुलीयकं केसरीचीवरखण्डं प्रमार्जनार्थे, 'संखाणं' ति - साङ्ख्यमतं, 'सज्जपुढवि'त्ति - कुमारपृथिवी । 'पयणं आरुहेई' - पाकस्थाने चुल्ल्यादावारोपयति, उष्माणं - उष्णत्वं ग्राहयति, 'दिट्ठि वमित्तए - मतं वमयितुं, त्याजयितुमित्यर्थः । 'अट्ठाई' ति अर्थान् अर्यमाणत्वादधिगम्यमानत्वादित्यर्थः, प्रार्ध्यमानत्वाद्वा याच्यमानत्वादित्यर्थाः, वक्ष्यमाणयात्रायापनीयादीन्, तथा तानेव 'हेऊई' ति- हेतून्, अन्तर्वर्त्तिन्यास्तदीयज्ञानसम्पदो गमकत्वात् ; 'पसिणाई'ति-प्रश्नान् पृच्छ्रयमानत्वात्, 'कारणाई' तिकारणानि विवक्षितार्थनिश्चयस्य जनकानि, 'वागरणाई' ति - व्याकरणानि प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'निष्पट्ट पसिणवागरणं' ति-निर्गतानि स्पष्टानि स्फुटानि प्रश्नव्याकरणानि प्रश्नोत्तराणि यस्य स तथा, 'खीणा उवसंत'तिक्षयोपशममुपगता इत्यर्थः एतेषां च यात्रादिपदानामागमिक गम्भीरार्थत्वेनाचार्यस्य तदर्थपरिज्ञानमसम्भावयताऽपभ्राजनार्थ प्रश्नः कृत इति, 'सरिसवय'त्ति - एकत्र सदृशवयसः - समानवयसः, अन्यत्र सर्षपाः - सिद्धार्थकाः 'कुलत्थि त्ति - एकत्र कुले तिष्ठन्तीति कुलस्थाः, अन्यत्र कुलत्थाः धान्यविशेषाः; सरिसवयादिपदप्रश्नः छलग्रहणेनोपहासार्थं कृत इति । 'एगे भवं'तिएको भवान् इति, एकत्वाभ्युपगमे आत्मनः कृते सूरिणा श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्ध्या एकत्वं दूषयिष्यामीत्तिबुद्ध्या पर्यनुयोगः शुकेन कृतः, 'दुवे भवं' ति द्वौ भवानिति च, द्वित्वाभ्युपगमे अहमित्येकत्वविशिष्टस्यार्थस्य
छाल