________________
नवाड़ी
० ०
श्रीज्ञाता
धर्मकथा
॥१९६॥
शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुत्वं चास्यानेनोक्तं, अथवा चियत्तोत्ति-लोकानां प्रीतिकर एव अन्तःपुरे गृहद्वारे वा प्रवेशो यस्य स तथा अतिधार्मिकतया सर्वत्रानाशङ्कनीयत्वादितिः 'चाउद्दसमुद्दिट्ठपुण्णिमासिणीसु पडि पुण्णं पोसहं सम्म अणुपालेमाणे उद्दिष्टा - अमावास्या पौषधं आहारपौषधादिचतुरूपं 'समणे निग्गंथे फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थ डिग्गहकंबल पायपुंछणेणं' - पतग्रहः- पात्रं, पादप्रोञ्छनं-रजोहरणं, 'ओसह मेसजेण' - मेषजं - पथ्यं 'पाडिहारिएणं पीढफलगसेआसंथारएणं पडिला भेमाणे' प्रातिहारिकेण पुनः समप्पणीयेन पीठ: - आसनं फलकम् - अवष्टम्भार्थं शय्या - वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको - लघुतरः, 'अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरह' 'सुए परिवागे 'त्ति-शुको व्यासपुत्रः ऋग्वेदादयश्चत्वारो वेदाः, षष्टितन्त्रं - साङ्ख्यमतं, सांख्यसमये - साङ्ख्य समाचारे लब्धार्थो वाचनान्तरे तु यावत्करणादेवमिदमवगन्तव्यं, ऋग्वेद यजुर्वेद सामवेदाथर्वणवेदानामितिहासपश्चमानां इतिहास :- पुराणं निर्घण्टुषष्ठानां' - निर्घण्टुः - नामकोशः, 'साङ्गोपाङ्गानां' - अङ्गानि - शिक्षादीनि, उपाङ्गानि तदुक्तप्रपश्चनपराः प्रबन्धाः सरहस्यानां - ऐदम्पर्ययुक्तानां, सारकः - अध्यापनद्वारेण प्रवर्तकः, स्मारको वा अन्येषां विस्मृतस्य स्मारणात्, वारको शुद्ध पाठनिषेधकः पारगः - पारगामी, पडङ्गवित् । पष्टितन्त्रविशारदः - षष्टितन्त्र- कापिलीयशास्त्रं षडङ्गवेदकत्वमेव व्यनक्ति; सङ्ख्याने गणितस्कन्धे, 'शिक्षाकल्पे ' - शिक्षायां अक्षरस्वरूपनिरूपके शास्त्रे, कल्पे - तथाविधसमाचारप्रतिपादके, व्याकरणे - शब्दलक्षणे, छन्दसि - पद्यवचनलक्षणनिरूपके, निरुक्ते शब्दनिरुक्तप्रतिपादके, ज्योतिषामयने - ज्योतिः शास्त्रे, अन्येषु च - ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठित इति वाचनान्तरं - 'पश्चयमपश्चनियमयुक्तः, ' तत्र पश्च यमाः - प्राणातिपातविरमणादयः, नियमास्तु-शौचसंतोष
५-श्रीशैलकाभ्य•
शैलकस्प
श्राद्धधर्म
पालनम् ।
J॥ ११६ ॥