________________
STHA
SARALA
एतेन च शानिनोक्ता, 'असहेज्जे-अविद्यमानसाहाय्यः कुतीर्थिकप्रेरितः सम्यक्त्वविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, अत एवाह 'देवासुरनागजक्खरक्खसकिन्नरकिंपुरुसगरुलगंधवमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणतिकमणि' देवा-वैमानकज्योतिष्कार, शेषा भवनपतिव्यन्तरविशेषाः गरुडा:-सुवर्णकुमाराः, एवं चैतयतो 'निग्गंथे पावयणे निस्संकिए'-निःसंशयः, निखिए-मुक्तदर्शनान्तरपक्षपातो, निवितिगिच्छे-फलं प्रति निःशङ्कः, लद्घ8-अर्थश्रवणतः, गहियडे-अवधारणेन, पुच्छियद्वे-संशये सति, अहिगयटे-बोधात्, विणिच्छियटे-ऐदम्पर्योपलम्भात् । अत एव अहिमिंजपेम्माणुरागरत्तेत्ति-अस्थीनि च प्रसिद्धानि मिञ्जा च-तन्मध्यवर्ती चातुरस्थिमिञास्ताः प्रेमानुरागेणसर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्मादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-'अयमाउसो 1, निग्गंथे पावयणे अढे अयं परमढे सेसे अण्णढे,' 'आउसो'त्ति-आयुष्मनिति, पुत्रादेरामन्त्रणं शेषं-धनधान्यपुत्रदारराज्यकुप्रवचनादि, उस्सियफलिहे-उच्छितं स्फटिकमिव स्फटिक-अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाच्या परितुष्टमना इत्यर्थः, इति वृद्धव्याख्या केचिच्चाहुः-उच्छ्रित:-अर्गलास्थानादपनीय ऊर्चीकृतो न तिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः, उत्सृतो वा-अपगतः परिधः-अर्गला गृहद्वारे यस्यासौ उत्सृतपरिधः उच्छ्रितपरिघो वा औदार्यातिरेकादतिशयदानदायित्वेन भिक्षुप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे'-अप्रावृतद्वारः कपाटादिभिर्मिक्षुकप्रवेशार्थमेव अस्थगितगृहद्वार इत्यर्थः इत्येकीयं व्याख्यानं, वृद्धानां-तु भावनावाक्यमेवं यदुत सद्दर्शनलोमेन कस्माञ्चित्पापण्डिकान विमेति शोमनमार्गप्रतिग्रहेणोद्घाटशिरास्तिष्ठतीति भावः, 'चियत्तंतेउरघरदारप्पवेसे'-चियत्तत्ति-नाप्रीतिकरः अन्तःपुरगृहे द्वारेण प्रवेशः
NIHASHRSS