SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सलिलपत्थपुणे-अच्छे च विमलं च यत्सलिलं-जलं पथ्य-हितं तेन पूर्णः, 'परिहत्थभमतमच्छकच्छभअणेगस. उणगणमिहुणपविचरिए'-'परिहत्य'त्ति दृप्ता भ्रमन्तो मत्स्याः कच्छपाश्च यत्र स तथा अनेकानि शकुनगणानां मिथुनानि | प्रविचरितानि यत्र स तथा,ततः पदद्वयस्य कर्मधारयः, पासाईए दरिसणिजे अभिरूवे पडिरूवे' इति प्राग्वत् , 'पावे'त्यादि, पापौ पापकारित्वात् चण्डौ क्रोधनत्वात रौद्रौ भीषणाकारतया तत्तद्विवक्षितं वस्तु लन्धुमिच्छत इति तल्लिप्सू साहसिकौसाहसात् प्रवृत्तौ लोहितौ पाणी-अग्रिमौ पादौ ययोस्तौ तथा, लोहितपानं वा अनयोरस्तीति लोहितपानिनौ, आमिपं-मांसादिकमर्थयत:-प्रार्थयतो यौ तौ तथा, आमिषाहारी-मांसादिभोजिनौ आमिषप्रियौ-बल्लभमांसादिको आमिषलोलौ आमिपलम्पटौ | आमिषं गवेषयमाणौ सन्तौ रात्रौ-रजन्यां विकाले च-सन्ध्यायां चरत इत्येवंशीलौ यौ तौ तथा, दिवा प्रच्छन्नं चापि तिष्ठतः। 'सूरिए' इत्यादि, सूर्य-भास्करे 'चिरास्तमिते' अत्यन्तास्तं गते 'लुलितायां' अतिक्रान्तप्रायायां सन्ध्यायां 'पविरलमाणुस्संसि निसंतपडिनिसंतसित्ति कोऽर्थः-प्रविरलं किल मानुषं सन्ध्याकाले यत्र तत्र देशे आसीत् तत्रापि निशान्तप्रतिनिशान्ते-अत्यन्तं भ्रमणाद्विरते निशान्तेषु वा-गृहेषु प्रतिनिश्रान्ते-विश्रान्ते निलीने अत्यन्तजनसञ्चारविरह इत्यर्थः 'समाणसि'त्ति सति आवाधा-ईषद्वाघां प्रवाधा-प्रकृष्टां बाधां व्याबाधां वा छविच्छेद-शरीरच्छेद, श्रान्तौ-शरीरत: खिन्नौ तान्तौ-मनसा परितान्तौ-उभयतः, 'ताए उक्ट्ठिाए'-इह एवं दृश्य-'तुरियाए, चवलाए, चंडाए, सिग्याए, उद्धृयाए, जयणाए, छेयाए'त्ति तत्र उत्कृष्टा-कूर्माणां यः स्वगत्युत्कर्षः तद्वती त्वरितत्वं, मनस औत्सुक्यात् चपलत्वं, १ कोदत्वात्, अ। HTRAIHIIICAE%
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy