SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ACROSSAGACANCERec 'वंझत्ति-अपत्यफलापेक्षया निष्फला, 'अवियाउरित्ति-प्रसवानन्तरमपत्यमरणेनापि फलतो बन्ध्या भवतीत्यत उच्यतेअवियाउरित्ति-अविजननशीला अपत्यानामत एवाह-जानुकूर्पराणामेव माता-जननी जानुकूपरमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः, अथवा जानुकूर्पराण्येव मात्रा-परप्रणोदे साहाय्ये समर्थ उत्सङ्गनिवेशनीयो वा परिकरो यस्या न पुत्रलक्षणः सा जानुकूपरमात्रा । 'दासचेडे'त्ति-दासस्य-भृतकविशेषस्य चेट:-कुमारका दासचेटः अथवा दासश्चासौ चेटश्चेति दासचेटः । 'तक्करे'ति-चौरा, 'पापस्य'-पापकर्मकारिणः, चाण्डालस्येव रूप-स्वभावो यस्य स तथा, चण्डालकर्मापेक्षया भीमतराणि-रौद्राणि कर्माणि यस्य स तथा; 'आरुसिय'त्ति-आरुष्ट स्येव दीप्ते-रक्ते नयने यस्य स तथा, खरपरुषे-अतिकर्कशे महत्यौ विकृते-चीभत्से दंष्ट्रिके-उत्तरोष्ठकेशगुच्छरूपे दशनविशेषरूपे वा यस्य स तथा, असंपुटितौ असंवृतौ वा परस्परालामौ तुच्छत्वाद्दशनदीर्घत्वाच्च ओष्ठौ यस्य स तथा उद्भूता-वायुना प्रकीर्णा लम्बमाना मूर्द्धजा यस्य स तथा, भ्रमरराहुवर्णः कृष्ण इत्यर्थः, 'निरनुक्रोशो-निर्दयो, 'निरनुताप:'-पश्चात्तापरहितः, अत एव 'दारुणो' रौद्रः, अत एव 'प्रतिभयो' भयजनकः, 'निःसंशयिक'-शौर्यातिशयादेव तत्साधयिष्याम्येवेत्येवंप्रवृत्तिका, पाठान्तरे-'निसंसेति-नृन्-नरान् शंसति-हिनस्तीति नृशंसः निःशंसो वा-विगतश्लाघः । 'निरणुकंपेत्ति-विगतप्राणि-| रक्षः निर्गता वा जनानामनुकम्पा यत्र स तथा, अहिरिव एकान्ता-ग्राह्यमेवेदं मयेत्येवमेवनिश्चया दृष्टिर्यस्य स तथा, 'खुरेव एगंतधाराए'सि-एकत्रान्ते-वस्तुभागेऽपहर्तव्यलक्षणे धारा परोपतापप्रधानवृत्तिलक्षणा यस्य स तथा, यथा क्षुरप्रा-एकधारः, मोषकलक्षणैकप्रवृत्तिक एवेति मावः, 'जलमिव सव्वगाहित्ति-यथा जलं सर्व स्वविषयापनमभ्यन्तरीकरोति तथाऽ
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy