SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ इत्यादिग्रन्थान्तराभिहितो विधिरासां द्रष्टव्यः । यच्चेह एकादशाङ्गविदोऽपि मेघानगारस्य प्रतिमानुष्ठानं भणितं, तत्सर्ववेदिसमुपदिष्टत्वादनवद्यमव सेयमितिः 'यथासूत्र' - सूत्रानतिक्रमेण, 'यथाकल्प' - प्रतिमाचारानतिक्रमेण, 'यथामार्ग' - ज्ञानाद्यनतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा, कायेन न मनोरथमात्रेण; 'फासेइ'त्ति - उचितकाले विधिना ग्रहणात्, 'पालयति' - असकृदुपयोगेन प्रतिजागरणात्, 'शोभयति' - पारण कदिने गुरुदत्तशेषभोजन करणात् शोधयति वा - अतिचारपङ्कक्षालनात्, 'तीरयति' - पूर्णेऽपि काले स्तोककालमवस्थानात्, 'कीर्त्तयति' - पारण कदिने इदं चेदं चैतस्याः कृत्यं कृतमित्येवं कीर्त्तनात् । गुणानां - निर्जराविशेषाणां रचना करणं, संवत्सरेण - सत्रिभागवर्षेण यस्मिंस्तत्तपो गुणरचनसंवत्सरं, गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तपसि तद्गुणरत्न संवत्सरमिति, इह च त्रयोदश मासाः सप्तदश दिनाधिकास्तपः कालः, त्रिसप्ततिश्च दिनानि पारणककाल इति एवं चायं - " पण्णरस वीस चउवीस चेव चउवीस पणवीसा य । चउवीस एकवीसा चउवीसा सत्तावीसा य ॥ १ ॥ तीसा तेत्तीसावि य चउवीस छवीस अट्ठवीसर य । तीसा बत्तीसावि य सोलस मासेसु तवदिवसा ॥ २ ॥ पनरसदसठ्ठ छप्पंच चउर पंचसु य तिष्णि तिणित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा || ३ |" इह च यत्र मासे अष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते, तावन्त्यग्रेतनमासादाकृष्य पूरणीयान्यधिकानि चाग्रेतनमासे क्षेतव्यानीति । 'चउत्थ' मित्यादि, चत्वारि मक्तानि यत्र त्यज्यन्ते तच्चतुर्थ, इयं चोप असंपूर्णानि, नवमस्य तृतीयं वस्तु भवति श्रुताधिगमो जघन्यः ॥ २ ॥ व्युत्सृष्टत्यतदेह उपसर्गसहो यथैव जिनकल्पी । एषणाऽभिप्रहयुता भक्तं वालेपकृतस्य ॥ ३ ॥ दुधश्वहस्त्यादयः ( आगच्छेयुः ) ततो भयेन पदमपि नापसरति । एवमादि नियमसेवी विहरति यावदखण्डितो मासः ॥ ४ ॥ पश्य, पृ. ७८ तमे । ૧૪ ||: JPE
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy