________________
नवाङ्गी
वृ० वृ०
श्रीज्ञाता
नमकथाङ्गे
॥ ७३ ॥
तल्लक्षणो बद्धः चिह्नपट्टो येषु ते तथा, ततः पदद्वयस्य कर्म्मधारयोऽतस्तेषु सत्सु गिरिवरेषु - पर्वतराजेषु, तथा - संवर्तकतेषु संजात संवर्तकेषु त्रस्ता - मीता ये मृगाश्च प्रसयाश्च - आटव्य चतुष्पदविशेषाः, सरीसृपाश्च - गोधादयस्तेषु ततश्वासौ हस्ती अवदारितवदनविवरो निर्लालिताग्रजिह्नश्च य इति कर्म्मधारयः 'महंत तुंबइयपुण्णकपणे' - महान्तौ तुम्ब कितौ भयादरतुम्बाकारौ कृतौ स्तब्धावित्यर्थः, पुण्यौ-व्याकुलतया शब्दग्रहणे प्रवणौ कर्णौ यस्य स तथा संकुचितः 'थोर'तिस्थूलः, पीवरो- महान् करो यस्य स तथा उच्छ्रितलाङ्गुलः; 'पीणाइय'त्ति- पीनाया - मड्डा तया निर्वृत्तं पैनायिकं तद्विधं यद्विरसं रटितं तल्लक्षणेन शब्देन स्फोटयन्निवाम्बरतलं पाददर्दरेण-पादघातेन कम्पयन्निव 'मेदिनीतल' मित्यादि, कण्ठथं; 'दिसो दिसिं 'ति - दिक्षु चापदिक्षु च विपलायितवान्, आतुरो-व्याकुलः 'जुंजिए 'ति- बुभुक्षितः, दुर्बल:- क्लान्तो ग्लानः, नष्टश्रुतिको मूढदिकः, 'परब्भाहए' ति - पराभ्याहतो बाधितो भीतो जातभयः, त्रस्तो - जातक्षोभः; 'तसिए' त्ति - शुष्क आनन्दरसशोषात्, उद्विग्नः कथमितोऽनर्थान्मोक्ष्येऽहमित्यध्यवसायवान्, किमुक्तं भवति १ - संजातभयः - सर्वात्मनोत्पन्नभयः आधावमान - ईपत् परिघावमानः समन्तात्, 'पाणियपाए त्ति पानं पायः पानीयस्य पायः पानीयपायस्तस्मिन्, जलपानायेत्यर्थः; 'सेयंसि विसन्ने' त्ति पङ्के निमग्नः, कार्य प्रत्युद्धरिष्यामीति कृत्वा कायमुद्धर्त्तुमारब्ध इति शेषः, 'बलियतरायं'ति - गाढतरं । 'तर ण' मित्यादि, इत्रमक्षरघटना - त्वया हे मेघ !, एको गजवरयुवा करचरणदन्तमुशलप्रहारैर्विप्रालब्धो विनाशयितुमिति गम्यते, विपराद्धो वा हतः सन् अन्यदा कदाचित् स्वकाय्थात् चिरं, 'निज्जूढे' ति-निर्धाटितो यः स पानीयपानाय तमेव महाइदं समवतरति स्मेति, 'आसुरुत्ते 'त्ति-स्फुरितको पलिङ्गः रुष्टः- उदितक्रोधः कुपितः - प्रवृद्धकोपोदयः
पुति 36
१ - उत्क्षिप्ताध्य०
श्रीमेघ
कुमारपूर्वभववर्णनम् ।
॥ ७३ ॥