________________
1
संप्रधारितवान्, 'मह' चि- महान्तः अश्वाः, अश्ववराः ये अश्वान् धारयन्ति, नागा- हस्तिनः, नागधरा ये हस्तिनो धारयन्ति, कचिद्वरा इति पाठः तत्राश्वा नागाश्व किंविधाः १ अश्ववरा अश्वप्रधानाः, एवं नागवराः, तथा रथा रथसंगिणेल्ली - रथमाला क्वचित् रहसंगल्लीति पाठः, तत्ररथसङ्गेली-रथसमूहः । 'तए णं से मेहे कुमारे अन्भागसभिंगारे' इत्यादिवर्णकोपसंहारवचनमिति न पुनरुक्तं, 'सविड्डीए'त्यादि, दोहदात्रसरे व्याख्यातं, शङ्खः प्रतीतः, पणवो - भाण्डानां पटहः पटहस्तु प्रतीत एव, मेरी - ढक्काकारा, झल्लरी- वलयाकारा, खरमुद्दी - काहला, हुडका - प्रतीता; महाप्रमाणो मद्दलो, मुरजः, स एव लघुर्मृदङ्गो; दुन्दुभिः - भेर्याकारा सङ्कटमुखी एतेषां निर्घोषो महाध्वानो नादितं च- घण्टायामिव वादनोत्तरकालभावी स तथा तद्वनि स्तलक्षणो यो वस्तेन, अर्थार्थिनो- द्रव्यार्थिनः, कामार्थिनः - शब्दरूपार्थिनः, भोगार्थिनः - गन्धरसस्पर्शार्थिनः लाभार्थिनःसामान्येन लाभेप्सवः, किल्बिषिकाः - पातकफलवंतो निःस्वान्धपवादयः, कारोटिका :- कापालिकाः, करो - राजदेयं द्रव्यं तद्वन्ति ये ते कारवाहिकाः, करेण वा बाधिताः पीडिता ये ते करवाधिताः शंखवादनशिल्पमेषामिति शाङ्खिकाः शङ्खो वा विद्यते येषां मङ्गल्यचन्दनाधारभूतः ते शाङ्खिकाः, चक्रं प्रहरणमेषामिति चाक्रिका:-योद्धारः, चक्रं - वाऽस्ति येषां ते चाक्रिका:कुम्भकारतैलिकादयः, चक्रं वोपदर्श्य याचन्ते ये ते चाक्रिका:- चक्रधरा इत्यर्थः, लाङ्गलिका:- हालिकाः, लाङ्गलं वा प्रहरणं येषां गले वा लम्बमानं सुवर्णादिमयं तद्येषां ते लाङ्गालिका:- कार्यहिकविशेषाः, मुखमङ्गलानि चाटुवचनानि ये कुर्वन्ति ते मुखमङ्गलिकाः, पुष्पमाणवा - नग्नाचार्या, वर्द्धमानका :- स्कन्धारोपित पुरुषाः, 'इडाही' त्यादि पूर्ववत्, 'जियविग्धोविय
१ अब्भुग्ग० अ ।
ভঃ