SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी-1 १०० श्रीज्ञाताधर्मकथाले १-उत्थिप्वाध्य दीक्षावर्णकन्या ख्यानम् । PROCHNICARRI|| ॥ ६१॥ SARKARKALGAACHAR 'दशमुद्रिकानन्तक'-हस्ताङ्गलिसंबन्धि मुद्रिकादशकं, 'सुमणदाम'ति-पुष्पमालां पिनद्ध्यता-परिधत्तः दर्दर:-चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये, 'मलय'त्ति-मलयोद्भवं श्रीखण्डं तत्संबन्धिनः सुगन्धयो-गन्धास्तान् पिनद्ध्यतः, हारादिस्वरूपं प्राग्वत् , ग्रन्थिम-यद्थ्यते सूत्रादिना वेष्टिमं-यद्थितं सद्वेष्ट्यते यथा पुष्पलम्बूसक: गेन्दुक इत्यर्थः, परिमं-येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते सांयोगिक-यत्परस्परतो नालसंघातनेन संघात्यते अलङ्कतंकुतालङ्कार, विभूषित-जातविभूषं । 'सद्दावेह जाव सदाविति' 'एगा वरतरुणी'त्यादि शृङ्गारस्यागारमिव शृङ्गारागारं अथवाशृङ्गारप्रधान आकारो यस्याश्चारुश्च वेषो यस्याः सा तथा, सङ्गतेषु गतादिषु निपुणा युक्तेषूपचारेषु कुशला च या सा तथा, तत्र विलासो-नेत्रविकारो, यदाह-" हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः। विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥१॥" संलापो-मिथो भाषा उल्लापः-काकुवर्णनं, आह च-"अनुलापो मुहर्भाषा, प्रलापोऽनर्थक वचः । काका वर्णनमुल्लापः, संलापो भाषणं मिथः ॥ १॥" इति । 'आमेलग'त्ति-आपीड:-शेखरः स च स्तनः-प्रस्तावाचुचुक. स्तत्प्रधानौ आमेलको वा-परस्परमीपत्सम्बद्धौ यमलौ-समश्रेणिस्थिती युगलौ-युगलरूपी द्ववित्यर्थः वर्तितौ-वृत्ती अभ्युन्नतौउच्चौ पीनौ-स्थूलो रतिदौ-सुखप्रदौ संस्थितौ-विशिष्टसंस्थानवन्तौ पयोधरौ-स्तनौ यस्याः सा तथा, हिमं च रजतं च कुन्द. श्वेन्दुश्चेति द्वन्द्वा, एषामिव प्रकाशो यस्य तत्तथा, सकोरेण्टानि-कोरेण्टकपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, धवलमातपत्रं-छत्रं, नानामणिकनकरत्नानां महाईस्य महाघस्य तपनीयस्य च सत्कावुज्वलो विचित्रौ दण्डौ ययोस्ते तथा, अत्र कनकतपनीययोः को विशेषः, उच्यते कनकं पीतं तपनीयं रक्तं इति, 'चिल्लियाओत्ति-दीप्यमाने लीने इत्येके।
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy