SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ इति-हे जात ! पुत्र 'किं दलयामोति-भवतोऽनभिमतं किं विघटयामो विनाशयाम इत्यर्थः। अथवा-भवतोऽभिमतेभ्यः किं दमः, तथा भवते एव किं प्रयच्छामः १, 'किं वा ते हियइच्छियसामत्थे'त्ति-को वा तव हृदयवाञ्छितो मन्त्र इति, 'कुत्तियावणाउ'त्ति देवताधिष्ठितत्वेन स्वर्गमर्यपाताललक्षणभूत्रितयसंभविवस्तुसंपादक आपणो-हट्टा-कुत्रिकापणः तस्मात् आनीतं काश्यपकं च-नापित शब्दितुं-आकारितुमिच्छामीति वर्तते, श्रीगृहात-भाण्डागारात् , 'निकेत्ति सर्वथा विगतमलान् , 'पोत्तियाइ'त्ति-वस्त्रेण, 'महरिहे'त्यादि 'महरिहेणं'त्ति-महतो योग्येन महापूजेन वा हंसस्येव लक्षणस्वरूपं शुक्लता हंसा वा लक्षणं-चिह्नं यस्य स तथा तेन शाटको-वस्त्रमानं स च पृथुला पटोऽभिधीयत इति पटशाटकस्तेन, 'सिंदुवारे'त्ति-वृक्षविशेषो निर्गुण्डीति केचित् तर्कुसुमानि सिन्दुवाराणि तानि च शुक्लानि । 'एस गं'ति-एतत् दर्शनमिति योगः; णमित्यलंकारे, अभ्युदयेषु-राज्यलाभादिषु उत्सवेषु प्रियसमागमादिमहेषु प्रसवेषु-पुत्रजन्मसु तिथिषु-मदनत्रयो दशीप्रभृतिषु क्षणेषु-इन्द्रमहादिषु यज्ञेषु-नागादिपूजासु पर्वणीषु च कार्तिक्यादिषु अपश्चिम-अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमं दर्शनं भविष्यति, एतत्केशदर्शनमपनीत केशावस्थस्य मेघकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः; अथवा न पश्चिममपश्चिमं-पौनःपुन्येन मेघकुमारस्य दर्शनमेतदर्शनेन भविष्यतीत्यर्थः। 'उत्तरावक्कमणं'ति-उत्तरस्यां दिश्यपक्रमण-अवतरणं यस्मात्तदुत्तरापक्रमण-उत्तराभिमुखं राज्याभिषेककाले पूर्वाभिमुखं तदासीदिति, 'दोचंपि'-द्विरपि, 'तचंपि'-त्रिरपि, 'श्वेतपीतैः'-रजतसौवणः, 'पायपलंब'ति-पादौ यावद् यः प्रलम्बतेऽलङ्कारविशेषः स पादप्रलम्बा, 'तुडियाईति-बाहुरक्षकाः, केयूराङ्गदयोर्यद्यपि नामकोशे बाहाभरणतया न विशेषः तथापीहाकारभेदेन मेदो दृश्यः, R-ANING
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy