SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी वृ० पृ० श्रीज्ञाताधर्मकथाङ्गे ॥ ६० ॥ " मणुसिदे जणवयपिया"-- हितत्वात्, 'जणवय पुरोहिए' - शान्तिकारित्वात् से उकरे - मार्गदर्शक:, केउकरे अद्भुत कार्यकारित्वात्, केतु:- चिह्न 'नरपवरे' - नराः प्रवराः यस्येति कृत्वा, 'पुरिसवरे'-- पुरुषाणां मध्ये वरत्वात्, 'पुरिससीहे' - शूरत्वात्, 'पुरिस आसी विसे' - शापसमर्थत्वात्, 'पुरिमपुंडरीए'- सेव्यत्वात्, 'पुरिसवरगंधहत्थी'--प्रतिराजगजभञ्जकत्वात्, 'अड्डे'-- आढ्यः, 'दित्ते'--दर्पवान्, 'वित्ते' - प्रतीतः; 'विच्छिन्नविउलभवणसयणा सण जाणवाहणाइनं' - विस्तीर्णविपुलानि - अति विस्तीर्णानि भवनशयनासनानि यस्य स तथा यानवाहनान्याकीर्णानि गुणवन्ति यस्य स तथा ततः कर्मधारयः, 'बहुधणबहुजायरूवरयए' - बहु धनं-गणिमादिकं बहुनी च जातरूपरजते यस्य स तथा, 'आयोगपयोगसंपत्ते' - आयोगस्यअर्थलाभस्य प्रयोगा- उपायाः संप्रयुक्ता-व्यापारिता येन स तथा 'विच्छड्डियपउरभत्तपाणे'- विच्छर्दिते- त्यक्ते बहुजनभोजनदानेनावशिष्टच्छिष्टसंभवात् संजातविच्छेद वा नानाविधभक्ति के भक्तपाने यस्य स तथा, 'बहुदासीदासगो महिसगवेलगप्पभूए'- बहुदासीदासश्वासौ गोमहिषीग वेलगप्रभूतश्चेति समासः, गवेलका - उरभ्राः, 'पडिपुण्णजंतकोसकोट्ठागाराउहागारे' - यन्त्राणि - पाषाणक्षेपयन्त्रादीनि कोशो-भाण्डागारं कोष्ठागारं धान्यगृह, आयुधागारं प्रहरणशाला; 'बलवं दुब्बलपच्चामित्ते'- प्रत्यमित्राः - प्रातिवेशिकाः, 'ओहयकंटयं निहयकंटयं गलियकंटयं उद्भियकंटयं अकंटयं' - कण्टकाः -प्रतिस्पर्द्धिनो गोत्रजाः उपहता विनाशनेन निहताः समृद्ध्यपहारेण गलिताः मानभङ्गेन उद्धृता देशनिर्वासनेन अत एवाकण्टकमिति, एवं 'उवहसन्तु' मित्यादि, नवरं शत्रवो गोत्रजा इति, 'ववगयदुभिक्खमारिभयविप्यमुकं खेमं सिवं सुभिक्खं पसंतडिंबडमरं' - अन्वयव्यतिरेकाभिधानस्य शिष्टसंमतत्वात् न पुनरुक्ततादोषोऽत्र 'रअं पसाहेमाणे विहरह'ति । 'जाया' ভঃতভ १-श्री उत् प्ताध्य० मेघकुमार स्य दीक्षावर्णकन्याख्यानम् । ॥ ६० ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy