SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ RACROCCASSOCHOCOSC% संशुद्धं--सामस्त्येन शुद्धमेकान्ताकलङ्कमित्यर्थः, शल्यानि-मायादीनि कुन्ततीति शल्यकर्तनं, सेधनं सिद्धिः-हितार्थप्राप्ति स्तन्मार्गः, सिद्धिमार्गः मुक्तिमार्गः--अहितकर्मविच्युतेरुपायः, यान्ति तदिति यानं, निरुपम यानं, निर्याणं-सिद्धिक्षेत्रं तन्मार्गो | निर्याणमार्गः, एवं निर्वाणमार्गोऽपि, नवरं निर्वाण-सकलकर्मविरहज सुखमिति, सर्वदुःखप्रक्षीणमार्गः-सकलाशर्मक्षयोपायः, अहिरिव एकोऽन्तो-निश्चयो यस्याः सा एकान्ता सा दृष्टि:-बुद्धिर्यस्मिन्निग्रन्थे प्रवचने-चारित्रपालनं प्रति तदेकान्तदृष्टिकं, ४ अहिपक्षे-आमिषग्रहणैकतानतालक्षणा एकान्ता-एकनिश्चया दृष्टिः-दृक् यस्य स एकान्तदृष्टिकः, क्षुरप्र इव एकधारा, द्वितीयधाराकल्पाया अपवादक्रियाया अभावात् ; पाठान्तरेण-एकान्ता-एकविभागाश्रया धारा यस्य तत्तथा, लोहमया इव यवाः चयितव्याः प्रवचनमिति प्रक्रमः, लोहमययवचर्वणमिव दुष्करं चरणमिति भावः, वालुकाकवल इव निरास्वादं वैषयिकसुखास्वादनापेक्षया प्रवचनं, गङ्गेव महानदी प्रतिश्रोतसा गमनं-प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतोगमनेन गङ्गेच दुस्तरं प्रवचनमनुपालयितुमिति भावः, एवं समुद्रोपमानं प्रवचनमिति, तीक्ष्णं खड्गकुन्तादिकं चंक्रमितव्यं--आक्रमणीयं यदेतत्प्रवचनं तदिति, यथा-खड्गादि क्रमितुमशक्यमेवमशक्यं प्रवचनमनुपालयितुमिति भावः, गुरुकं महाशिलादिकं लम्बयि. तव्य--अवलम्बनीयं प्रवचनं गुरुकलम्बनमिव दुष्करं तदिति भावः, असिधारायां सचरणीयमित्येवं रूपं यद्वतं-नियमस्तदसिधाराव्रतं चरितव्यं--आसेव्यं यदेतत्प्रवचनानुपालनं तदेतदुष्करमित्यर्थः, कस्मादेतस्य दुष्करत्वमत उच्यते-'नो य कप्पई' त्यादि, 'रइए वति-ौदेशिकभेदस्तच्च मोदकचूर्णादि पुनर्मोदकतया रचितं भक्तमिति गम्यते, दुर्भिक्षभक्तं यद्भि १ ०लकर्मक्ष० अ। AFRICORNITIONFERIISE
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy