SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी ० पृ० श्रीज्ञाताधर्मकथा ।। ५५ ।। विरूपाणि यानि मूत्रपुरीषपूयानि तैर्बहुप्रतिपूर्णाः; उच्चार:- पुरीषं प्रखवणं-मूत्रं, खेल :- प्रतीतः, सिवानो - नासिकामलः, वान्तादिकानि प्रतीतान्येतेभ्यः संभवः - उत्पत्तिर्येषां ते तथा । 'इमे य ते' इत्यादि, इदं च ते आर्यक : - पितामहः, प्रार्थक:-- पितुः पितामहः, पितृप्रार्थकः- पितुः प्रपितामहः, तेभ्यः सकाशादागतं यत्तत्तथा; अथवा आर्यक प्रार्यकपितॄणां यः पर्यायः परिपाटिरित्यनर्थान्तरं तेनागतं यत्तत्तथा । 'अग्गिसाहिए' त्यादि, अग्नेः स्वामिनश्र साधारणं, 'दाइय'त्ति- दायादाः पुत्रादयः, एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थं पर्यायान्तरेणाह -- 'अग्गिसामण्णे' इत्यादि, शटनं वस्त्रादेरतिस्थगितस्य पतनं--वर्णादिविनाशः, विध्वंसनं च प्रकृतेरुच्छेदः धर्म्मो यस्य तत्तथा, 'जाहे नो संचाएति'त्ति यदा न शक्नुवन्तौ, 'बहूहिं विसए'त्यादि, - बह्वीभिः विषयाणां - शब्दादीनामनुलोमा:- तेषु प्रवृत्तिजनकत्वेन अनुकूला विषयानुलोमास्ताभिः, आख्यापनाभिश्च सामान्यतः प्रतिपादनैः, प्रज्ञापनाभिश्च - विशेषतः कथनैः, संज्ञापनाभिश्च संबोधनाभिर्विज्ञापनाभिश्व-विज्ञ प्तिकाभिश्च सप्रणयप्रार्थनैः, चकाराः - समुच्चयार्थाः, आख्यातुं वा, प्रज्ञापयितुं वा, संज्ञापयितुं वा; विज्ञापयितुं वा न शक्नुत इति प्रक्रमः । ' ताहे 'ति तदा विषयप्रतिकूलाभिः शब्दादिविषयाणां परिभोगनिषेधकत्वेन प्रतिलोमाभिः संयमाद्भयमुद्वेगं च - चलनं कुर्वन्ति यास्ताः संयम भयोद्वेगकारिकाः - संयमस्य दुष्करत्वप्रतिपादनपरास्ताभिः प्रज्ञापनाभिः प्रज्ञापयन्तौ एवमवादिष्टाम्- 'निग्गन्थे'त्यादि - निर्ग्रन्थाः - साधवस्तेषामिंद नैर्ग्रन्थं प्रवचनमेव प्रावचनं, सद्द्भ्यो हितं सत्यं सद्भूतं वा नास्मादुत्तरं - प्रधानतरं विद्यत इत्यनुत्तरं, अन्यदप्यनुत्तरं भविष्यतीत्याह - कैच लिकं केवलं अद्वितीयं, केवलिप्रणीतत्वाद्वा कै लिकं प्रति पूर्ण - अपवर्गप्रापकैर्गुणैर्भृतं, नयनशीलं नैयायिकं, मोक्षगमकमित्यर्थः; न्याये वा भवं नैयायिकं मोक्षगमकमित्यर्थः; ঃ6 १-श्रीउत्क्षि प्ताध्य० स्त्रीपुरुष शरीरा शुचित्वम् । ॥ ५५ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy