SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ +35 थानां कटीप्रमाणाफलकवेदिका भवन्ति, वाचनान्तरे स्थानन्तरमश्वा हस्तिनश्वाभिधीयन्ते, तत्र ते वाहनभूताः ज्ञेयाः । | 'गाम'त्ति-दशकुलसाहनिको ग्रामः, तिविहदीवत्ति-त्रिविधा दीपाः, १ अवलंबनदीपाः शृङ्गलाबद्धा इत्यर्थः, २ उत्कम्पनदीपा:-ऊर्ध्वदण्डवन्तः, ३ पञ्जरदीपा-अभ्रपटलादिपञ्जरयुक्ताः, त्रयोऽप्येते त्रिविधाः सुवर्णरूप्यतदुभयमयत्वादिति एवं स्थालादीनि सौवर्णादिमेदात् त्रिविधानि वाच्यानि, कइविका-कलाचिका अवएज इति-तापिकाहस्तकः, 'अवपतिअवपाक्या तापिकेति संभाव्यते, भिसियाओ-आसनविशेषाः; करोटिकाधारिका:-स्थगिकाधारिकाः, द्रवकारिकाः-परिहासकारिकाः, शेष रूढितोऽवसेय; 'अन्नं चेत्यादि, विपुलं-प्रभूतं धनं-गणिमधरिममेयपरिच्छेद्यभेदेन चतुर्विधः कनकं च-सुवर्ण, रत्नानि च-कर्केतनादीनि, स्वस्वजातिप्रधानवस्तूनि वा, मणयश्चन्द्रकान्ताधा मौक्तिकानि च; शङ्खाश्च प्रतीता एव, शिलाप्रवालानि च-विद्रुमाणि, अथवा-शिलाच-सजपट्टा, गन्धपेषणशिलाच, प्रवालानि च-विद्रुमाणि, रक्तरत्नानि च-पञ्चरागादीनि एतान्येव; 'संत'त्ति-सत् विद्यमानं यत्सारं-प्रधानं स्वापतेयं-द्रव्यं तद्दन्तवन्ताविति प्रक्रमः, किंभृतं ?,'अलाहित्ति-अलं-पर्याप्तं परिपूर्ण भवति, 'यावत्ति-यावत्परिमाणं आसप्तमात् कुललक्षणे वंशे भवः कुलवंश्यस्तस्मात्सप्तमं पुरुष यावदित्यर्थः, प्रकाम-अत्यर्थ दातुं-दीनादिभ्यो दाने, एवं भोक्तुं-स्वयं भोगे, परिभाजयितुं-दायादादीनां परिभाजने, तत्परिमाणं दत्तवन्ताविति प्रकृतं; 'उप्पिति-उपरि, 'फुट्टमाणेहिं मुयंगमत्थएहि-स्फुटद्भिरिवातिरभसाऽऽस्फालनात मृदङ्गमस्तकः-मर्दलमुखपुटैः, 'रायगिहे नगरे सिंघाडग'-इत्यनेनालापकांशेनेदं द्रष्टव्यं-'सिंघाडगतिगचउक्कचचरचउम्मुहमहापहपहेसु', 'महया जणसद्देइ वा' इह यावत्करणादिदं दृश्यं; 'जणसमूहेइ वा, जणबोलेइ वा, जणकलकलेह aytCI||%AECIGARE 404-SCARE
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy